________________
स०टी०
॥१५॥
|च ॥ २८६ ॥ तमालिङ्गय मुदा तेनाचिन्त्यद्यापि च यत्प्रिया । ममापि कक्षुकस्याऽपि, प्रवृत्तिर्दैवयोगतः ॥ २८७ ॥ दायद्यानीयाधुना पल्यै, कञ्चकं न ददाम्यहम् । तदा तस्या भृशं मृत्युभविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय
कौशल्य-पिशुनं पत्रकं लघु । लिखित्वा वल्लिनिर्यासः, क्रीडाहरिकरेऽर्पये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रेषीत्कञ्चकायाचलत्स्वयम् ॥ २९ ॥ व्यन्तरान् वानरीभूय, क्रीडतः काननेऽन्यदा । दृष्ट्वा तेषां तु कापेय-चापलं स विसिष्मिये ॥ २९१॥ एकः कालमुखाभिख्यस्तेषु राजपदं श्रितः । सामन्तामात्यपादात-पदस्थैर्वानरैर्वृतः ॥ २९२ ॥ द्वारपालं समादिक्षदरे!! सूत्रकृतः खयम् । गत्वा कारय दारूणां, केकिनः कीलिकाङ्कितान् ॥ २९३ ॥ युग्मम् । तथैव कारयित्वा ऽसौ, व्योमगं कीलिकावशात् । दारुबर्हिगणं द्वास्थः, कपीन्द्राय न्येवदयत् ॥ २९४ ॥ अथ प्रयाणढक्कां स, ताडयित्वा खवर्गयुक् । तेष्वारूढः कालमुखोऽचालीजेतुमरीन् हरीन् ॥ २९५ ॥ अश्ववारानिव व्योम्नि, वानरान् केकिवाहनान् । आरामनन्दनः पाद-चारेणानुचचार तान् ॥२९६॥ कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो रयात् । उत्तीर्य वादयामासुः, काहलाः कातरार्त्तिदाः ॥ २९७ ॥ एकान्ते किनो मुक्त्वा, चेलुश्चारिहरीन प्रति । प्रतिवीराश्च तान् दृष्ट्वा, चुक्षुभुर्वायुनाऽब्धिवत् ॥ २९८ ॥ केऽपि नेशुर्वने केऽपि, विविशुर्गिरिगह्वरम् । केऽप्यरीन् द्रष्टमायाता, वलिताश्च भयातुराः ॥ २९९ ॥ खेशं नीलमुखं चोचुर्देवाचैव बलान्विताः। पतामोऽरातिघाताय, नान्यथा विजयो हि नः॥३०॥ ततो नीलमुखः स्माहान्तःपुरं क्वापि भूधरे।
Ham Education
onal
For Privale & Personal Use Only
min.jainelibrary.org