________________
खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः ॥ २७२ ॥ वृत्तान्तमेतत् शृण्वन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातो |ऽपराधं नः, क्षमख परमेश्वरि! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य, वनसूनुरचिन्तयत् । स कञ्चकोऽस्ति मेऽद्यापि,
वैताद्व्ये किन्तु दुर्लभः ॥ २७४ ॥ यत्कृते कञ्चकादानं, क्रियते सा प्रिया मृता । तत्साम्प्रतं कृतं कान्ता-घातपातकिनाऽमुना ॥ २७५ ॥ अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽग्नौ पातितस्तत्र, विशाम्यहमपि द्रुतम् ॥ २७६ ॥ ततस्तत्पार्थमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गणम् ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेष्टा वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधद्रुमात् ॥२७८॥ युग्मम् ।
तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साश्चर्यचेता आराम-तनुभूरित्यवाचयत् ॥ २७९ ॥ खस्ति-| सालक्ष्मीपुरात् श्रीमान् , श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि, "प्रीत्यालिङ्गय वनात्मजम् ॥२८०॥ समादिशति हते कान्ता, त्वद्वियोगाद्भुताशने । प्रविशन्ती मयाऽवार्यवधीकृत्याष्टवासरीम्" ॥२८१॥ अतो लघु त्वयैतव्यं, मया च * तव शुद्धये । सर्वत्र प्रहिताः सन्ति, शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये ।।
इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ॥ २८३ ॥ अहो!! परोपकाराय, सतां धीर्यन्मम प्रिया । वह्नौ विशन्ती| भूपेन, रक्षिता जीवितोऽस्मि च ॥२८४॥ स्वप्नोऽपि सूनृतः सोऽभूद्यो दृष्टः श्रेष्ठिमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्याx मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योम्नोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासौ, सोऽपि तं प्रणनाम
ACCORREARRARGAGGARCASI
Jan Educat
i
onal
For Private & Personal use only
Breaneibrary.org