SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ MARY यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितखप्नदर्शनं हि क्वचिन्मृषा ॥ २१५ ॥ अतोऽहं दयिताहत्यापातकी कापि पर्वते । गृहीत्वाऽनशनं प्राणान्मुञ्चेयं दुर्जनानिव ॥२१६ ॥ इति सञ्चित्य चित्तेऽसौ, सागरं मुत्कलाप्य च । गतोऽद्रिं तदधो भूमिभागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् । सर्वलक्षणपूर्णोऽयमिति तत्संमुखं ययौ ॥२१८ ॥ मुश्चन्नश्रूणि सान्द्राणि, स्नेहादिव जगाद च । भद्र ! त्वमत्र मद्भाग्यैः, समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेऽत्र मन्त्रस्य, पूर्वसेवा मया कृता। सत्त्वाधिकनराप्राप्त्या, नारब्धोत्तरसेविका ॥ २२० ॥ अतः पुरुषरत्न ! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतख भोः! ॥ २२१॥ इति तेनार्थितो दध्यौ, स खान्ते योगिनो ऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम् ॥ २२२ ॥ विघ्नादि रक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूर्णो न संशयः ॥ २२३ ॥ युग्मम् । इति सञ्चित्य तद्वाक्ये, वनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्नान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो वा राक्षसोऽथवा । मन्त्रविघ्नकृदागच्छंस्त्वया वार्योऽत्र सात्त्विके ॥२२५॥ ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः । खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥ २२६ ॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तरसाधकम् । स्मारं स्मारं तथा मन्त्रमाहुतीर्योग्यदान्मुदा ॥ २२७ ॥ क्षुब्धाया मत्रदेव्याः प्राग, भूतवेतालराक्षसाः। अट्टाट्टहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः ॥ २२८ ॥ तेष्वेकः सहजोत्तालो, वेतालो वननन्दनम् । उपेत्याख्यदरे दुष्ट ११, दृष्टोऽसि क नु यास्यसि २ . Jan Educat i onal For Privale & Personal Use Only C a inelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy