SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ राजा राजगजारूढोऽमात्यसामन्तयुक् पुरे। प्रविश्याशिश्रियत्सिंहासनं सिंहो गुहामिव ॥१.१॥ राजपुत्री रूपसत्रं, पात्रं सर्वकलाश्रियाम् । जयश्रियमिव क्षिप्रमुपायंस्त जयश्रियम् ॥१०२॥ तस्मिन् दिने जनेशस्य, संवृत्तं भोजनव्यये । लक्षमेकं सपादं च, द्रम्माणां पुण्ययोगतः ॥ १०३ ॥ नवोऽयमिति भूपालस्तदाज्ञालोपिनां नृणाम् । महीपतिनिराकृत्यै, प्रतिहारान् समादिशत् ॥ १०४ ॥ तेऽपि प्रत्युत भूपालं, बालवजहसुभृशम् । ईग्भिः क्वापि किं राज्यं, भुजिष्यैरिव भुज्यते ? ॥ १०५ ॥ ततः कोपात्सभाभित्तिचित्रितान् वेत्रिणो नृपः। समादिक्षनिहन्तुं तांस्तेऽपि तत्ताडनं व्यधुः॥ १०६ ॥ भयभ्रान्तास्ततस्तस्य, सर्वेऽपि शरणं ययुः। तावन्न वशतामेति, मूर्यो यावन्न हन्यते ॥१०७॥ निरीक्ष्य तस्य माहात्म्यं, दुर्द्धरा अपि भूधनाः ।आज्ञां शेषामिव क्षिप्रं, स्वशीर्षेऽस्थापयन् भिया ॥१०८॥ खपुण्योदयतो मानं, निजोत्कर्षप्रहर्षिणाम् । मत्र्यादीनां धराधीशो, भङ्क्त्वा राज्यमपालयत् ॥ १०९॥ अन्यदा नरयुग्मेन, विज्ञप्तः स क्षितेः पतिः । स्वामिन्नस्ति प्रशस्तश्रि, श्रीपुरं प्रवरं पुरम् ॥ ११० ॥ तत्रामात्रारिमातङ्गकेसरी नरकेसरी। नृपोऽस्ति यस्य शौण्डीये, वीक्ष्य शक्रोऽपि कम्पते ॥ १११॥ तस्य प्रिया महालक्ष्मीर्लक्ष्मीरपि यदग्रतः। ज-12 लाही भवत्यत्र, सौभाग्येनापि सङ्गता ॥ ११२॥ तत्कुक्षिशुक्तिमुक्ताभा, जयलक्ष्मीस्तनूभवा । निरूप्य यां श्रिय मपि, हरिः परिजिहीर्षति ॥ ११३॥ एकदा संसदासीनो, नरेन्द्रो नरकेसरी । निमित्तवेदिने कन्यां, जयलक्ष्मीमदसार्शयत् ॥ ११४ ॥ सोऽपि तलक्षणश्रेणिं, सम्यग निश्चित्य भभजे । अवदद्य इमां कन्यां, वरेण्यां परिणेष्यति ॥११५॥ HAINSAR ४० Jain Education till nal For Private &Personal use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy