________________
तिथिसङ्गमः "
जग्मुः, श्राद्वेषिण्या मग
त्तस्य सन्निधौ ॥७०॥ दिने तस्मिन् पुरे कोऽपि,प्रावर्त्तत महोत्सवः । तेन लोको वस्तुजातग्रहायागात्तदापणे ॥७१॥
एकाकिनस्तस्य दूतः, साहाय्यं पण्यविक्रये । ददावानन्दितः सोऽपि, तमभाषत नैगमः॥ ७२ ॥ भोजनावसरो वृत्तो, ६ वत्सोत्तिष्ठ गृहे मम । समागच्छ गृहाणाद्याऽऽतिथ्यं तथ्यगुणाकर! ॥७३॥ दूतस्तं प्राह नैकाकी, त्रयोऽन्ये सन्ति ।
पूर्वहिः । सुहृदस्तैर्विना नाहं, विदधामि भुजिक्रियाम् ॥ ७४ ॥ सोऽभाणि श्रेष्ठिना गत्वा, तानानय मदोकसि ।। धन्यानामेव पुण्येन, समयेऽतिथिसङ्गमः ॥ ७५ ॥ चत्वारोऽपि तदा श्रेष्ठिसदने भोजनं व्यधुः । वणिजस्तद्यये द्रम्मः, सपादः कर्मकृत्फलम् ॥ ७६ ॥ द्वितीये दिवसे जग्मुः, श्रीमद्रनपुरेऽथ ते । युवराड् भूभुजाऽऽदिष्टो, भोज-18
नादिककर्मणे ॥ ७७ ॥ पुरान्तः प्रविशन् सोऽपि, रूपतर्जितनिर्जरः । पुंद्वेषिण्या मगधया, वेश्यया ददृशेतराम् है।॥७८ ॥ मत्वा तस्मिन्नतितरामनुरागवतीं सुताम् । अका तमानयद्गह, देहवन्तमिव स्मरम् ॥ ७९ ॥ सोऽपि तां
कुम्भिकुम्भाभवक्षोजां कमलाननाम् । तिलोत्तमापरिस्पर्द्धिरूपां वीक्ष्य विसिष्मिये ॥ ८० ॥ द्यूतक्रीडामसजात8 ब्रीडां कुर्वस्तयाऽथ सः। ऊचे प्राणेश ! कुर्वीथा, भोजनं स्नानपूर्वकम् ॥ ८१ ॥ सोऽप्यूचे मम मित्राणि, त्रयोऽन्ये
सन्ति पूर्वहिः । ऋते तेभ्यो न कुर्वेऽहं, भोजनं चारुलोचने! ॥८२॥ तानप्यानय जीवेश!, तथैव विहितेऽमुना। सादरं कारयामास, सा तकान् सानभोजने ॥ ८३॥ रूपकानां पञ्चशती, लग्ना तद्भोजनव्यये । ततः प्रस्थाय ते जग्मुः, श्रीमत्यञ्चपुरे पुरे ॥ ८४ ॥ तृतीये दिवसे मत्री,प्रहितो भूभुजा पुरे। सोऽपि पौरश्रियं पश्यन्नगच्छद्राजसंसदि
en E
AIS
For Private & Personal use only