SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सम्य० वनसूनो यादन्ये, परिम्लानानना जनाः । यथावदर्शयामासुः, खं खं भाण्डं भुवो विभोः ॥ १७१ ॥ पश्यन् भाण्डानि 8 स० टी. सर्वेषां, चक्षुषा क्षणवीक्षिणा । वेगादागादयं राजा, यत्रास्ते च्छगणोचयः ॥ १७२ ॥ वनागङ्गजेन भूजानिश्छगणान् प्रविदार्य तान् । कारयामास रत्नानां, राशिं रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धारपत्रं राज्ञे प्रदर्शितम् । नृपोऽप्युवाच ते वित्तमेतेभ्यो दापयामि किम् ?॥१७४॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्यन्ति नो तर्हि, पुरा विज्ञपयाम्यहम् ॥ १७५ ॥ सर्वेषां वणिजां दानमुक्तिं वनभुवोऽपि च । प्रासाददानमाधायागाद्राजा राजमन्दिरम् ॥१७६ ॥ ततो वनसुतोऽनांसि, भृत्वा रत्नैरनेकशः। याचकेभ्यो ददद्दानमागात्सागरमन्दिरम् ॥१७७॥ सागरोऽपि त्रपामन्दानन्दाभ्यां युगपद्धृतः। अभ्यागच्छन्नमश्चके, बक्रेतरहृदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते स रचिताञ्जलिः । प्रोचे तात! भवत्पुण्यक्रीताः स्वीक्रीयतां श्रियः ॥ १७९॥ सागरोऽपि हि तद्वाक्यं, गुरुवाक्य|मिवानघम् । मेने को हि रमां रामामिवायान्ती निवारयेत् ? ॥ १८०॥ अथापरैर्वणिक्पुत्रवृत्ते खे व्यवहारिणाम् । वज्रपात इव प्रोक्ते, ते चिन्तासागरेऽपतन् ॥ १८१ ॥ ततः सम्भूय सम्भूय, सर्वेऽपि व्यवहारिणः । विमृश्य किमपि खान्ते, सागरागारमैयरुः ॥ १८२॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्वितः । आसनेषु निवेश्याथात्प्रच्छच्चागम ॥११॥ कारणम् ॥ १८३॥ तेऽप्यासनात्समुत्थाय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुपाविशन् ॥१८४॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्यमजानानाश्छगणान् जगृहुजनाः ॥ १८५ ॥ रक्षा च वारिधी SAXAR CARRASCARICHIRURG Jain Education anal For Privale & Personal Use Only Hejainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy