SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तस्मै, दत्वा मण्डपिकामगात् ॥ १५५॥ तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् । हसद्भिर्वेष्टितः पौरैर्दास्थोक्तो | ऽगानुपान्तिकम् ॥१५६ ॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या व्यज्ञपयन्नपम् । अहो वाणिज्यचातुर्य, पश्यारामभुवो विभो! ॥१५७॥ चङ्गेरी मोचयित्वाग्रे, धराधीशं ननाम सः। तदापितासने सिंह, इवोपविशति स्म च ॥१५८॥ मौक्तिकादीनि वस्तूनि, ढौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५९ ॥ आश्चर्यामर्षवान् भूपो, वभाषे भो ममाग्रतः। वणिजा केन दुष्प्रापमुपायनमिदं धृतम् ? ॥ १६०॥ कृताञ्जलि प्रतीहारः, प्रोचे वनभुवाऽमुना । तच दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥ १६१॥ निरर्थकं न चेष्टेत, मतिमानीदृशो जनः। इति ध्यात्वा नृपः पाणावकं छगणमाददे ॥ १६२॥ तदारामसुते हृष्टेऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादाविभूतं रत्नं नृपोऽगृहीत् ॥ १६३ ॥ अन्यान्यपि द्विधाकृत्य, नृरत्नं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः | ॥१६४॥ रत्नोद्योतेऽपि सर्वत्र, भूतले प्रसृते सति । सांयात्रिकजनश्चित्रमजायत तमोमयः ॥१६५॥प्रमोदवानथो नाथोऽपृच्छत्तं स्वागतं तव ?सोऽपि स्माह महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६॥ राजा पप्रच्छ किं सर्वमपि पण्यं तवेदृशम् ? । आमेत्युक्त्वा स आरक्षादिभ्यछगणमानयत् ॥१६७॥ वणिजां हृदयानीव, बिभेद्य च्छगणानि सः।रत्नानि दर्शयित्वा च, नृपमेवमवोचत ॥१६८॥ कृत्वा प्रसादं भूपालवेलाकुलमहीतलम् । सनाथीक्रियतामस्मन्मनः सन्तु& टिपुष्टये ॥१६९ ॥ तदुक्तिरजितो राजा, सांयात्रिकजनैः सह । पट्टवाजिनमारुह्य, वेलाकूलं रयादयात् ॥१७॥ RAMRPA%ARRESPECARSASARA Jain Educat onal For Private & Personal use only Brow.jaineibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy