SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥२२३॥ RECRORECASSARE कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मृत्पिण्डः, तथा चायं, तस्मात्तथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानखरूपमाहदवट्ठयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिच्चा ॥६१॥ व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तच विचार्यमाणं विशरारुतामावहति; एकान्तानित्यो ह्यात्मा क्रमेणार्थक्रियां कुर्याद्यौगपद्येन वा ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयग्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं स्यात् , द्वितीयक्षणे विनष्टत्वात् , अतो न | क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्पनस्थिरैकखभावं नित्यमिति तु नित्यलक्षणं, तचात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादाद्यकभावपरिहारेण भावान्तरसं|श्रयणाद्वलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एवाह-दवत्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शाश्वतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं ॥२२३॥ Hann Educat an interational For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy