________________
CSCRICCCCCREASCCC
द्वितीयं लक्षणं, 'कर्ता' ज्ञानावरणाद्यष्टकर्मणामुपार्जनादिति तृतीयं लक्षणं, 'भोक्ताच' पुण्यपापयोः उपभोक्तृत्वादिति चतुर्थ लक्षणम् , 'अस्ति ध्रुवं निर्वाणं' सकलकर्मक्षयान्मोक्ष इति पञ्चमं लक्षणं, 'तस्य' निर्वाणस्य 'उपायश्च' उपक्रमः शुक्लध्यानादीति षष्ठं लक्षणम् , एवं षट् स्थानानि । एषां च सम्यकपरिज्ञानादवश्यं सम्यक्त्वस्य सत्त्वं ज्ञायत इति द्वारगाथार्थः ॥ ५९॥ ___ एतेषां षण्णामपि मध्ये प्रथमस्थानकखरूपमाह
आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवो अत्थि अवस्सं पच्चक्खो नाणदिट्ठीणं ॥६॥ ___व्याख्या-इह हि केचिदनादिमिथ्यात्ववासनावासितखान्ताः शाक्यादयः परमार्थावे दिन आत्मानं प्रत्यात्मवैरिणो विप्रतिपद्यन्ते, इत्थं च तदभावमावेदयन्ति, तथाहि-नास्त्यात्मा स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपपञ्चविधप्रत्यक्षेण गृहीतुमशक्यत्वात् , तदभावाच नानुमानादिभिः, यद्यत्प्रत्यक्षं न गृह्यते तत्तन्नास्ति, यथाऽऽकाशकुशेशयं, तथा चायं, तस्मान्नास्त्येवात्मेति । तन्निरासायाह-'आत्मा' जीवः 'अनुभवसिद्धः' खसंवेदनज्ञानानुभूतः, आत्माऽऽत्मनाऽऽत्मानं सुविशुद्धध्यानसंवलितः पश्यति, चैतन्यरूपत्वात्तस्य, अतः प्रत्यक्षीभूतः, तदनुमानगम्यतामप्याह-'गम्मइ'त्ति 'तथा' तेन प्रकारेण 'गम्यते' अवबुध्यते परीक्षकैरिति,कैः?-'चित्तचैतन्यादिभिः' ज्ञानं च चैतन्यं च ज्ञानचैतन्ये आदिशब्दा|त्सुखदुःखेच्छादयस्तैरिति, अत्र साधनं चेदम्-अस्त्यात्मा, चैतन्यसुखदुःखेच्छादिकार्याणां कारणभूतत्वात् , यद्य
Hamn Education HKDgional
For Privale & Personal use only
P
ainelibrary og