SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मिव निरीक्ष्यैष, वनजः सम्मुखं ययौ ॥ १२५ ॥ आलिङ्ग्य बन्धुवत्स्नेहादुत्तीर्ण नाविकं ततः । आनीय वनसूर्गेहे, शाल्योदनमभोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रत्नाप्तिवर्ज खं वृत्तं, तत्पुरः प्रत्यपादयत् | ॥ १२७ ॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैगमाः । स्मृतसन्धास्तदैव द्रागनूपद्वीपमैयरुः ॥ १२८ ॥ तत्र ते नीरमादाय, चलन्तः खपुरं प्रति । आह्वयन् वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥१२९ ॥ नावि पोते च सोऽरत्नान् , सरत्नांश्छगणान् क्रमात् । भृत्येभ्यः स्थापयन्नेवं, तैरुक्तः किमिदं हि भो? ॥१३०॥ सागरश्रेष्ठिनो वित्तमुपाया भावतोऽधिकम् । अविज्ञेन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१॥ त्यक्स्ताग्छगणका? ह्यत्रोपयुज्यन्ते क्व निर्जने । अतः सहैव नीयन्ते, वनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् । तेऽपि स्माहुः त्यजैतांस्त्वं, गृहीत्वाऽस्मत्क्रयाणकम् । खपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥१३३॥ एवमज्ञाततत्त्वैस्तैर्हसितोऽपि वपोतकम् । आरूढो वणिजैः साई, सोऽचालीत्वपुरं प्रति॥१३४ ॥ ब्रजतां यानपात्राणामर्द्धमार्गे महोदधेः । दुर्दैववशतो वातो वाति स्म प्रातिकूलिकः॥१३५॥ तेनेरितानि तानि साग, भ्रश्यत्सितपटानिहा। निपेतुर्मण्डलावर्ते, कैवत्तैर्धारितान्यपि ॥१३६॥ तत्र भ्रमत्सु पोतेषु, तेषु सांयात्रिकाङ्गिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ॥ अत्र सांयात्रिकैस्तस्माच्छगणेष्वर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मजति ॥१३८ ॥ अपक्वान्नादनादेते, सञ्जातजठरातयः । पुनस्तमवदन् खेन, यच्छैतानि न सोऽप्यदात् ॥१३९॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोद्धारेण देहि नः। Jain Educatio n al For Private &Personal use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy