________________
खेनागृणात्-वत्सास्या महासत्या वपुषि सर्वथापि न दोपलेशोऽप्यस्ति, किन्त्वेषा महासतीषु प्राप्तरेखा मृगाङ्गलेखा | भुवनप्रसिद्धस्य सागरचन्द्रस्य परमप्रेमवती प्रेयसी जिनमतभावितमतिविधिवशादिहागता खशीलपालनाय अहिलीभूता, अतस्त्वयेयं मूर्तिमती कुलदेवीव रक्षणीया, सोऽपि देवीं विसृज्य पार्थिवाय परमार्थ निवेद्य तां च सम्बोध्य श्रियमिव खाश्रयं निनाय, सापि सुरकृतप्रातिहार्या प्रकटितशीलप्रभावा जनैरर्यमाना तत्र तिष्ठन्ती चिन्तयति स्मअन्यत्र सुतोऽन्यत्रैव, वल्लभः परिजनोऽपि चान्यत्र । बलिरिव सकलकुटुम्ब, प्रक्षिप्तं हतकदैवेन ॥१॥ इतश्च सुरेन्द्रदत्तो व्यवहारकलासु कौशल्यं कलयन्नुपार्जयंश्च घनं धनं पितुर्जीवितादपि वल्लभोऽभवत्, तस्मिन्नवसरे तस्य
सर्वेषु कृत्येपूत्कर्ष विलोकयन्ती धनवती तुच्छमतिरिति चिन्तितवती-अस्मिन् जीवति मत्पुत्रौ तूलतुल्यावेव, ततः हासा शाकिनीव दुरध्यवसाया तद्यापादनाय सविषमोदकमेकमपरी द्वौ निर्विषो विधाय तेषां सुतानां कृते कोशशादलायां दासीकरे प्रेषितवती तामुक्तववती च-स्थूलं मोदकं सुरेन्द्रदत्ताय देयं, इतरे लघुनी मोदके नरदेवधनदेवयो-14
देये, तयाऽपि गत्वा तथैव चक्रे, सुरेन्द्रदत्तस्तु कार्यव्यापृतस्तं मोदकमेकान्ते चास्थापयत् , लघू तु बुभुक्षितौ बुभुजाते तदैव मोदको, स तु कार्यव्याकुलत्वेन भोक्तुं यावन्न पारयति तावत्ती लघुबन्धू पुनः क्षुधिती जाती दृष्ट्वातं मोदकं विभज्य दत्तवान् , ताभ्यामपि भुक्तं, ततस्तत्क्षणादेव तौ गुरुगरललहरीपरीतौ विपन्नौ, यत्क्रियतेऽन्यस्य तत्वस्यैवायाति । तदनु ज्ञातवृत्तान्तो वैश्रमणस्तस्या दुष्टाशयं विमृश्य स खिन्नः सुरेन्द्रदत्तं रहस्याह स्म-वत्स ! ब्रज त्वं
Hamn Education
Ronal
For Private &Personal use Only
jainelibrary.org