SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥२०८ || तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीवे! मया शीलमेवावालकालं यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वेश्यात्वं तदनु तया दुष्टया रुष्टया निविडं निगडिताऽपि | सा सतीमतल्लिका न शीललीलायिताभ्रश्यत्, विधिवशाच तस्यामेव निशि कीनाशनिशान्तमाशिश्राय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्वलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्धा सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुरस्वात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं वेत्रिणं चित्रिणमिवालापमात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः खयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने शिवाचाल्यत, साप्यनन्योपाया कपटेन वैकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वाङ्गं लगयामास, समीपवर्तिनं जनं च लेष्टुयष्टिमुष्टवादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तद्दुःखार्त्ताभिस्ताभिर्मन्त्रवादिनः समाहूताः, सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तद्दोषपरीक्षायै समादिदिशे, सोऽप्येकान्ते श्री चन्द्रप्रभस्वामिशासनदेवतां ज्वालामालिनीं कनीशरीरेऽवतार्य मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु Jain Education International For Private & Personal Use Only स० टी० ॥२०८॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy