SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥२०६॥ FI"अक्षिपक्षम कदा लुप्तं ?, छिद्यन्तेऽत्र शिरोरुहाः। वर्द्धमानात्मनामेव,प्रसङ्गिन्यो विपत्तयः॥२॥ एवमाश्चास्य वनदेवता तिरोदधे, क्रमेण रात्रिरपि विरराम । तदा सागरचन्द्रनामाङ्कितमुद्रारत्नसनाथेन वस्त्राञ्चलेन समन्तात्परिवेष्टय देवकलैककोणके तं सुतमवस्थाप्य वयं स्नातुं वासांसि क्षालयितुं च समीपवर्तिनि पद्मसरसि जग्मे । तस्मिन्नवसरेऽत्यन्तबुभुक्षितेन शुनाऽऽमिपगन्धाकृष्टेन स दारको जगृहे, धिर धिग् इमां कर्मपरिणतिं, न कदाप्यनवकाशः प्राकृतसुकृतदुष्कृतयोः, यतः-"जं जेण किंपि विहिवं अन्नभवे इह भवे य सुहमसुहं। तं सो पावइ जीवो वच्चइ देसंतरं जइवि ॥ ॥१॥धारिजइ इंतो सागरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामों ॥२॥ ततः स बालकः समीपसरित्तटे शौचार्थमेतस्थ वैश्रमणश्रेष्ठिनः पुरस्तात्तदर्शनतस्तस्य सारमेयस्य वदनादपतत् । तेनापि तत्र प्रवालदलकोमलकरचरणकमलो बालो व्यलोकि, तमादाय जातामन्दप्रमोदो निन्द्रा धनवतीनाम्याः खजायाया ४ आर्पयत, साऽपि तत्कालजातकं(बालक) परासुंदास्या त्याजयित्वा तत्स्थाने तमभिनवं बालकं स्थापयामास. ततस्तजन्ममहस्ताभ्यां पितृवच्चक्रे, संवृत्ते च द्वादशाहे सुरेन्द्रदत्तइतिनामविदधे, तन्माहात्म्याच वैश्रमणः खल्पकालेनैव वैश्रमणतां विभवेनाऽऽशिश्राय, धनवत्यपि निन्दूदोषमुज्झांचकार, ततस्तस्याश्चापरौ नरदेवधनदाभिधी तनयावभूतां, सुरेन्द्रदत्तोऽपि क्रमेण वर्द्धमानश्चारुतारु एवं बभार, पित्रा द्वात्रिंशतं वधूः परिणायितो दोगुन्दुकलीलामाकलयामास । इतश्च भृगाङ्कलेखा देहं वासांसि च प्रक्षाल्य सरोवराद्यावदागता तावदानन्दकन्दलीकन्दं तं तनूभवं तत्रानव ॥२०६॥ Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy