________________
-
SAMACeR-MARRECALCARSAX
त्यभिगत्य खसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्चचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जात
सौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूरं गता भिल्लैरपजहे। साथैवाहेन सर्वत्र गवेषिताऽ-15 दापि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थ विहस्तोऽभूत् ,
हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को वा मां त्वां विना दुःखिनीमाश्चासयिता? मया च सह को दुःखं सोढेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैनन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावल्लाटदेशाधीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोsप्यलुण्ट्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाङ्गी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैककोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजस्विनं सुतमसूत, तं खकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते ? । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सातमुत्सङ्गिनं विधाय सकष्टमरीत्सी(रोदी)त-वत्साहं निर्भाग्यशिरोमणिस्तव जन्मनि कमुत्सवं करोमि? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः? । एवं विलपन्ती सा कथमपि वनदेवतयेति वोधिता-"रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागोवा, ससिसूराणं न ताराणं ॥१॥
PROCRACRESCROLOGICAL
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org