SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ जानानाः ? परं यदचिन्त्यं यच वक्तुमप्यक्षमं तन्नार्यः अनार्यहृदः कुर्वन्ति, यतः-जंचिंतिउं न जुग्गं न होइ वुत्तंपि जखम होइ । नारीउ हयासाओ करंति कारंति तंपि इहं ॥१॥ तद्गच्छ गच्छ नाहं त्वद्वदनमप्वालोकयामि, यदि परंतू तव स्थानदायिनी रम्भैव सदम्भाया इति निर्भर्त्य खवेश्मनः सवयस्यां तां निर्वास्य खदास्या च धनसाररम्भयोस्तत्वरूपं साऽभाणयत्-यदेतस्या निजनन्दिन्याः सुपरीक्षिताया एव प्रवेशो देयो नेतरथा । ततश्च शिशिरतुदग्धपद्मिनीव परिम्लानवदना सवितृच्छविविलुप्तकान्तिप॑गाङ्कलेखेव मृगाङ्कलेखा चित्रलेखासखीसहाया जनकनिकेतनद्वारमगमत् । तच्छश्रूपूर्वविप्रतारिताभ्यां ताभ्यां सा वेश्मनि प्रविशन्त्येव न्यवारि । तदा तदीयवन्धुना धनञ्जयन जनकोऽभण्यत-तात! यद्यप्येषा श्वशुरकुलान्निरवास्यत तथापि तवावगणितुं न युज्यते, यावत्सैन्यात्सागरचन्द्रः समेति तावदुसं प्रकटं वा स्थापयितुमुचिता । श्वश्रूवचसा त्वया प्रोज्झिताऽवश्यमियं प्राणांस्त्यक्ष्यत्यपमानेन, यतः श्वशुरकुलपराभूतानां सुतानां पितृकुलमेवाधारः, तत्कृपां कृत्वा मैनां निर्वासय, यतस्त्वं तातोऽसि अत एवोच्यते, सूनुनैवमु-11 क्तोऽपि हृतसार इव धनसारो निर्भाग्य इवागतां श्रियं तां निरवासयत् । ततः सा जनकापमानेन विशिष्य सदुःखा मुक्ताफलस्थूलान्यश्रूणि मुञ्चन्ती दुर्जनैरुपहस्यमाना सजनैरनुकम्प्यमाना पौरनारीभिरावास्यमाना सवयस्या पुरान्निःससार । अनुदिनं सागरचन्द्रस्य पन्धानं पृच्छन्ती खरतरखरकरसन्तापिता सरःसन्निहिततरुमूले मध्याह्ने क्षणं विशश्राम । जाते च पश्चिमे यामे प्रियमार्गमनुसरन्त्यदभ्रदर्भसूचिकानिशितामभिन्नांहिक्षरदसूपरम्परयालक्तकेनेव ३५ Jain Education a l For Privale & Personal use only anelbrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy