________________
सम्य०
॥२०१॥
| सिद्धार्थनामक सिद्धपुत्रप्रदत्तमन्धपटं प्रावृत्य यत्र सा वर्णिनी वर्णके निवेशिताऽस्ति तत्र तौ जग्मतुः । तस्मिन्नवसरे मृगाङ्कलेखा चित्र लेखापत्रलेखादिवयस्याभिः समं परमानन्दमयीं गोष्ठीमासूत्रयन्ती तिष्ठति स्म । अथ चित्रलेखा | मृगाङ्कलेखामाह स्म - प्रियसखि ! त्वमेव भुवि धन्याऽसि यया सौभाग्यसागरचन्द्रः सागरचन्द्रः प्रियतमो लेभे, यतः - अनुरूपः कलाशाली, वदान्यः सवयाः सुधीः । धनवाननुरक्तश्च, पुण्यैः सम्प्राप्यते पतिः ॥ १ ॥ अथ तद्वचः | प्रतिकूलयन्ती पत्रलेखाऽभाषत-मुग्धे ! चित्रलेखे सत्यं चित्रलिखितैवासि, न जानासि सारासारं, किन्तु मत्सखी - योग्यस्तारुण्यपुण्य लावण्योऽनङ्ग इव चङ्गोऽनङ्गदेवो धनदेवाङ्गभृरस्ति, ततोऽपरा व्याजहार — पत्रलेखे ! पत्रलेखेवासि, न पात्रपरीक्षादक्षाऽसि, नूनमनङ्गदेव को नामानङ्गसमं न मन्यते ? परं मया वयस्यावरार्थे संवरनामा ज्ञानी पृष्टः, तेनापि जगदे जगदेकबन्धुना - असावनङ्गदेवो न मृगाङ्कलेखाया उचितो वरः यदेष विंशतिवर्षपरिमितायुः, तदन्वन्या जगाद - भगिनि ! त्वमपि न जानासि, स्तोकमप्यमृतं बहुसुखावहं स्यान्न विषभारः, मृगाङ्कलेखा तु दक्षापि कक्षीकृतामन्दमन्दाक्षा दृशापि ता न न्यषेधयत् । तस्मिन्नवसरे सागरचन्द्रः सबै तासामालापं कर्णकटुकमाकर्ण्य कोपाटोपसमुत्कटललाटपट्टः कृपाणमाकृष्य तद्वधाय यावद्धावति स्म तावद्धनमित्रस्तं करे धृत्वाऽत्रवीत् - मित्र क एष तव रोपावसरः ?, यतो वामापि वामा न विनाशमर्हति, विशिष्य लज्जासजा मृगाङ्कलेखेव निखद्या मृगाङ्कलेखा, एता अपि तत्सख्यो मिथो नर्मालापं कुर्वन्त्यः कथं वधमर्हन्तीति सम्बोध्य कथमपि सुहृदा स गृहं निन्ये । ततः परं
Jain Education International
For Private & Personal Use Only
स० टी०
॥२०१॥
www.jainelibrary.org