________________
REAUCRKARKALA
भवति सफलं तव जन्मति सुहृद्भिरभिहितः स ध्यातवान-मम जन्म यौवनं धनं च सर्वमप्यसारं यद्येनां तिलोत्तमोत्तमा न रेमे। ततस्तस्य खगृहं गतस्योद्दामकामज्वरविधुरितस्यान्नेऽप्यरुचिरजायत, विहस्तैरपि जनकादिभिः पृष्टोऽपि न स्पष्टमाचष्ट । तन्मित्रमुखात्कारणं विज्ञाय पितरौ बुवाते स्म-वत्सोत्तिष्ठ भुक्ष्व विद्धि च तां बालां खा
शयकुशेशयशयालु मरालीमिव । इतश्च तत्रैव पुरे सागरदत्तेन श्रीऋषभनाथचैत्यं रत्नमयं कारयित्वा प्रतिष्ठाप्य दशाBाहिकामहोत्सवदशमदिने धनसार्थवाहः समाहूतः। ततोऽभयप्रदानदीनजनवनीपकवित्तवितरणजिनसङ्खपूजादिभिर्व्य-13 तीतप्राये तस्मिन्नहनि सागरदत्तगृहे बहुजनपरिवारो धनसारोऽपि गतः । प्रस्तावोऽयमिति सागरदत्तप्रेरितैर्दैव
कैरुक्तम्-अपूर्वोऽयं शशिरवियोगो यदद्य ज्योत्स्त्री जाता तस्मादद्यैव पर्वदिनं शोभनं च लग्नं यावयोरेकत्र सङ्गतिः, ततोऽस्मद्विरा परस्परं कमपि बन्धुरं सम्बन्धं विधत्तं ततः सागरदत्तेनोक्तम्-मदङ्गजस्य सागरचन्द्रस्य योग्या कर
गृहीतीभवितुं भवत्कन्या मृगाङ्कलेखा,तदनु धनसारोऽपि सागरचन्द्रस्याप्रतिम रूपं निरूप्य निजनन्दिनीमदात् , ततो द नैमित्तिकाभिहिताहे द्वयोरपि गृहे विवाहसामग्री संवृत्ता। वधूवरावासन्ने लग्ने वर्णकगृहे निवेशितौ। तदा सागरेन्दुस्त
दिदृक्षायै समुत्कण्ठितो धनमित्रं खमित्रमवादीत्-भ्रातर्मया तदा देवालये भवदुपहसितेन सा सम्यक् न दृष्टा तदधुनापि तदवलोकनकुतूहलं मे पूरय वर्णकभङ्गं कृत्वा कथं त्वं तत्र जिगमिषसीति तेन निषिद्धोऽप्याह स्म-भवतु यद्वा तद्वा, मया तद्विलोकनेन डगुत्सवः करणीय एव, एवं तं कदाग्रहपहिलं ज्ञात्वा ज्योत्स्नानाशिततमिस्रायां तमिस्रायां
Jan Educati
onal
For Private & Personal Use Only
K
ainelibrary.org