________________
कश्चिद्विपश्चिदुत्सर्गापवादवेदी सम्यग्दृष्टिदुर्गतिपातभीरुः संविनोऽपि कान्तारे पतितः स्वनिर्वाहमजानाना जीवि - तव्यरक्षायै वृत्तिं कर्तुकामो विषमिवान्यदैवतवृन्दं तद्भक्तदीक्षितजनं च मन्वानो जिनमतमेव परमरहस्यं चेतसि चिन्तयन् केनापि मिथ्यादृशा भोजनादिदानदाक्षिण्येन हठान्नियमभङ्गं कार्यत इति वृत्तिकान्तार इति गाथार्थः ॥ ५३ ॥ एभिराकारैः कृतैः कथं न नियमभङ्ग इत्याह
न चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो न एएहिं ५४
व्याख्या –'न चलन्ति' न भ्रश्यन्ति, कस्मात् ? - ' शुद्धधर्मात् ' सर्वोपाधिविशुद्धसिद्धिवधूतादर्हन्मार्गात्, के ? - 'महासत्वा' मेरुवन्निष्प्रकम्पाः, किंभूताः ? - 'सुभिद्यमाना अपि सुतराम् - अत्यर्थ दुष्टदानवमानवादिभिररुन्तुदयष्टिमु|ष्टिलेष्टुयत्रादिभिः कदर्थ्यमाना अपि, अजातोपसर्गा हि सर्वेऽपि खात्मानं सत्त्ववन्तं मन्यन्ते परं त एव सात्त्विका ये संवृतेऽपि दुग्र्गोपसर्गे जीवितनिरपेक्षतया निर्वाहितखाभिग्रहाः स्युरिति । 'इयरेसिंत्ति' इतरेषां महासत्त्ववदपेक्षया मन्दसत्त्वानां 'चलनभावे' मुख्यादुत्सर्गमार्गाच्यवने सति 'एभिः ' षडाकारैः प्रागुक्तै राजाभियोगादिभिः 'न प्रतिज्ञाभङ्गो' न स्वीकृतनियमलोपो मनोभावापरावर्त्तादिति गाथार्थः ॥ ५४ ॥ भावार्थस्तु पडाकाराणामपि मृगाङ्कलेखादृष्टान्तेन स्पष्टीक्रियते, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org