________________
Alert
दिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां पड्विधयतनाखरूपनिरूपणो नाम नवमोऽधिकारःसमाप्तः। नवमं षड्विधयतनाख्यमधिकारमुक्त्वा दशममाकारषट्राधिकारमाह
आगारा अववाया छ चिय कीरंति भंगरक्खट्टा । रायगणवलसुरकमगुरुनिग्गहवित्तिकंतारं ॥५१॥ व्याख्या-अत्र सम्यग्दर्शने 'आकारा' उत्सर्गमार्गस्खलनानि अत एवापवादाः यतो जिनशासने उत्सर्गापवादपक्षावुक्तौ"उस्सग्गसुयं किंची, किंची अववाययं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयवा ॥१॥" अतो गुणागुणविभागमवलोक्योभयपक्षसेवा कार्या, यदुक्तम्-"तम्हा सवाणुना सबनिसेहो य पवयणे नत्थि। आयं वयं तुलिज्जा लाहाकंखिव वाणियओ॥१॥" उत्सर्गपक्षस्तु यथाख्यातज्ञानदर्शनचारित्राणां निरतीचारो मार्गः, स तावदधुना तादृक्कालसङ्घ (संह)ननधृतिबलविकलैः सम्यक् सेवितुं न शक्यते, तदकरणे चात्मविघातः, तद्विघाते चाङ्गीकृतनियम-| ध्वंसः, ततो दुर्गदुर्गतिपरिभ्रमणं, अतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनाऽऽत्मा शोधनीयः, यदागमः"सवत्थ संजमं संजमाउ अप्पाणमेव रक्खिजा। मुच्चइ अइवायाओ, पुणोऽवि सोही न याविरई॥१॥" अत एव ते क्रियन्ते' सेव्यन्ते, किमर्थम् ?-'भङ्गरक्षार्थ' गृहीतव्रतपालनार्थ, यतः-"वयभंगे गुरु दोसो थेवस्स य पालणा गुणकरी य। भग्गं गरुयपि वयं, सगडं व न होइ फलहेऊ ॥१॥" ते च कतिसङ्ख्या भवन्ति ?-'पडेव'षट्सङ्ख्या एव, ताने
-%
IRCR-
Jain Education
Nepal
For Privale & Personal use only
anelbrary og