________________
सोऽवादीद्वेत्ति यद्विभुः। तत्तथैव ततो भूपो, महामात्यमतर्जयत् ॥ ११५ ॥ एनं पापं सभायां मे, त्वमानयसि नित्यशः । श्लाघसे च समत्वेन, निर्ममैजैनसाधुभिः॥११६ ॥ भक्तपानप्रशंसादि, कुर्वताऽमुष्य पाप्मनः । खं सम्यक्त्वं मम प्राणांश्चासन्निर्गमितानि भोः! ॥ ११७ ॥ निर्भत्स्यैवं पदाद्दष्टं, भूधवस्तं व्यधात्क्रुधा। शिक्षाकृते च तत्स्थाने, परं मन्त्रिवरं न्यधात् ॥११८ ॥ नियमभ्रंशतो जातपश्चात्तापः स धीसखः । प्रायश्चित्तमुपादाय, पुनः सम्यक्त्वमाश्रयत् ॥ ११९ ॥ असिचमणप्रायं, पालयन् धर्ममार्हतम् । ज्ञात्वा राज्ञा क्षमयित्वाऽस्थापि स खपदे पुनः ॥ १२०॥ घातकोऽपि मृतीतोऽवादीद्भपं मया व्रतम् । जगृहे भावतो जैनमुचितं यत्कुरुष्व तत् ॥१२१॥ ततो राजाऽऽदिशन्मल्लान्मुञ्चतैनं तपस्विनम् । यद्रोचतेऽस्मै तत्कुर्यात्कर्त्तव्यं सुष्टुसुष्टुना ॥ १२२ ॥ किन्तु नीलमहीपालो, निग्राह्योऽयं मया कुधीः । युद्धे कृते त्वङ्गीघात, इति चिन्तयति स्म राट् ॥ १२३ ॥ तदा मृगवरं यक्षमुद्दिश्य विहिताष्टमः । राजा पौषधशालायां, तस्थिवान् सुस्थिराशयः ॥ १२४ ॥ ज्ञात्वा यक्षोऽपि तद्भावं, बध्वा नीलमिलापतिम् । नलभूपालपादाग्रे, लोठयामास लेष्टुवत् ॥ १२५ ॥ नलस्तं स्माह रे नील!, किं करोमि तवाधुना । सोऽप्यूचे यच्छरण्यानां क्रियते तत्कुरुष्व भोः!, ॥१२६ ॥ उन्मोच्य बन्धनादाज्ञां,मानयित्वा नलो नृपः । नीलं सत्कृत्य च प्रैषीद्यक्षेणैव निजं पुरम् ॥ १२७ ॥ खं राज्यं जिनधर्म च, निस्सपत्नं स पालयन् । सुखेन गमयामास, वासरान् सुरराजवत् ॥ १२८ ॥ खराज्ये प्रतितिष्ठासुमङ्गजं संयमोन्मुखम् । नृपं विज्ञपयामासुरागत्योद्यानपालकाः ॥ १२९ ॥ देवाद्य नन्दनोद्याने,
Jan Educatan
d aal
For Privale & Personal Use Only
Olainelibrary.org