SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ८ ॥ 1 शालिकाम् ॥ ७९ ॥ धिषणा धिषणस्यापि, जयिन्यस्येति पूर्जनः । लक्ष्मीधरधराधीशपुरो वनजमस्तवीत् ॥८०॥ तद्बुद्धिरञ्जितो राजा, समाकार्य खसन्निधौ । तस्मै प्रसादं पञ्चाङ्ग, दत्वा प्रोचे वरं वृणु ॥ ८१ ॥ सागरश्रेष्ठिनं तत्रानाय्य काननसूरपि । नृपं व्यजिज्ञपद्देव, ! दीयतामस्य मद्वरः ॥ ८२ ॥ लक्ष्मीधरधरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः श्रेष्ठिपदं तदुचितं ददौ ॥ ८३ ॥ राज्ञोऽनेन पदं मह्यं दापितं तदमुष्य हि । अहमप्यात्मनः कन्यां दत्वाऽस्मै स्याङ्किलानृणः ॥ ८४ ॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः । जगदे वनपुत्रेण, ताताग्रे मेऽस्ति वल्लभा ॥ ८५ ॥ प्रतिपन्नः पिता त्वं मेऽतस्ते कन्या मम खसा । पदं दत्ते सन्मार्गे, सुविचारः कथं ? पुमान् ॥ ८६ ॥ अन्यदा वार्द्धियात्रायै, पोतान् प्रगुणितानसौ । विलोक्य सागरं स्माह, तात ? वित्तं प्रयच्छ मे ॥ ८७ ॥ तल्लाभोऽपि त्वया ग्राह्यः केवलं कौतुकं मम । ततः स सागरस्तस्मै, लक्षमेकमदाद्धनम् ॥ ८८ ॥ भूरिशो व्रीहयश्चाष्टी, महिष्यो मुग्धदुग्धदाः । पदार्थाः शर्कराचन्द्र - पूगनागलतादयः ॥ ८९ ॥ मुशलोदूखले यत्राष्टकं श्रीहेश्च पिष्टये । रन्धनाय तथा स्थाल्यो, वस्तुभोगोपयोगि च ॥ ९० ॥ शस्त्राणि वरवस्त्राणि, भृत्याभृत्याष्टकं पृथक् । अङ्गशुश्रूषिकाचार्द्धवृद्धा का पुरन्धिका ॥ ९१ ॥ सप्तश्वेतपटोपेतः, पोतो भाटककर्म्मणा । एतानि तेनोपात्तानि, लक्षैकद्रविणव्ययात् ॥ ९२ ॥ चतुर्भिः कलापकम् । महेभ्यैरपरैर्यानपात्राणि विविधैरपि । ऋयाणकैरपूर्यन्त, परतीरोपयोगिभिः ॥ ९३ ॥ आरामसूरतु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, श्रीह्यादि निजवाहने ॥ ९४ ॥ ततः सागरमापृच्छ्य, Jain Education International For Private & Personal Use Only स०टी० ॥ ८ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy