SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ वरेण च । सिन्धुरो नोद्धतः पङ्कादुपायैर्विहितैरपि ॥६५॥ पङ्कान्निष्काशयत्येनं, गजं यस्तस्य वाञ्छितम् । ददामीति नृपो द्रङ्गे, पटहं पटवीवदत् ॥६६॥ तच्छ्रुत्वा वनजोऽस्माक्षीत्पटहं पटुधीस्ततः । उपभूपमयं निन्ये, धराधिपतिपूरुषैः ॥६७॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोद्धृतौ । सहायिनं मदादेश-करं मत्रिणमादिश ॥ ६८॥ ततः पद्मश्रियः सूनुर्नरेन्द्रादिष्टमत्रिणा । संत्रा तत्र ययौ यत्र, निमग्नोऽस्ति महागजः ॥६९॥ आकण्ठभग्नं सीत्कारान्मुचन्तमबलाङ्गकम् । जाङ्गुलीस्तम्भितं नागमिव नागं ददर्श सः॥७॥ मत्रिणा तस्य नागस्य, शतहस्तमितां भुवम् । पक्केष्टकाभिरभितो, बन्धयामासिवानसौ ॥ ७१॥ धिषणागोचरं काय, कथं कर्तेति? सादरम् । विदुरैर्वीक्ष्यमाणोऽसा-वादिशन्मत्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बलसम्पत्तिहेतवे । शल्लक्याद्यशनं देहि, तेनापि विदधे तथा ॥७३॥ तद्गजाध्यासितं स्थानं, सरसो वनसूस्ततः । सारिणीवारिणा पूर्व, तूर्ण कारयति स्म सः ॥७४ ॥ सुधीनिर्मापितोदारस्फारशृङ्गारसारया । करिण्या करिणं स्वीय-करेणास्पर्शयच्छनैः ॥ ७५॥ शल्लक्या अशनोद्भूतबलो मदकलोऽथ सः । जलाप्लावितजंबालबन्धमुक्तोऽभवद्गतम् ॥ ७६॥ वशाङ्गस्पर्शसातस्मरोल्लासमहोद्यमः। तां रिरंसूरसौ हस्ती, समुत्तस्थौ शनैः शनैः ॥ ७७॥ अरे निषादिनो ! नीरान्मन्दं कृषत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ॥ ७८ ॥ आकृष्टिविद्ययवेत्या-कृष्यमाणं मतङ्गजम् । वनजो जनयंश्चित्रं, निनाय गज समं. Jain Educati o nal For Privale & Personal Use Only Necjainelibrary.org R
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy