________________
ध्वे नवेत्यादि गुणपृच्छा, केन ज्वरभरभगन्दरशोफशोषार्थीवातपित्तकफातीसारादिरोगेणाथवा भूतप्रेतपिशाचपन्नगग्रहावेशबाधया शरीरकष्टमनुभवतेत्यादि दोषपृच्छा, एवं मिथ्यादृग्भिः सह संलापकरणं दुर्गदुर्गतिपाताय, अत एव भगवता निषिद्धं, 'नो मे कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुचिं अणालत्तेणं आलवित्तए वा संवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा दाउं वा अणुप्पयाउं वा' इति गाथार्थः ॥ ५० ॥ अत्रार्थे मनितिलककथा, सा चेयम्
घरणीरमणीभालस्थलीतिलकसन्निभम् । विजयाहृवं पुरं भोगावतीजित्वरवैभवम् ॥१॥ तत्र दुरवीर्यारिवन-1 दादावानलोपमः । नलो नाम महीपालः, परिपालयते स्म गाम् ॥२॥ तस्याभूत्पट्टमहिपी, सर्वान्तःपुरमण्डनम् । सौ
भाग्यमञ्जरीचूतभूता सौभाग्यमञ्जरी ॥३॥ तस्य सर्वसहा भर्तुर्बुद्धिपङ्कजिनीरविः । मन्त्रिणां तिलको मनितिलको नाम मन्यभूत् ॥ ४॥ श्रीनलः क्ष्मातलखामी, विरञ्चिरिख वासुकी। निवेश्य वसुधाभारं, तस्मिन् सुखमयोऽजनि
॥५॥ अन्यदा नलभूपालश्चचाल मृगयां प्रति वाजिराजं समारुह्य, ससैन्यो मत्रिणा समम् ॥६॥ अरण्ये प्रासरमात्सैन्यं, दैन्यकृद्वन्यदेहिनाम् । यावत्तावहदशैकं, मत्रियुक् भधनो मृगम ॥ ७॥ आरोप्य यावत्कोदण्डं, काण्ड मोसाक्ष्यति तं प्रति । तावत्तेन धराधीशो, बभाषे नरभाषया ॥८॥ मृगयाव्यसनासक्तो, यत्त्वं हंसि मृगानमून् । तत्तव सूक्षत्रियोत्तंसाक्षत्रं कत्तुं न युज्यते ॥९॥ तृणाशिनोऽशरण्यांश्च, बनजान् प्राणिनः कथम् । निरापराधांस्त्वं राजन् !,
कलर
Jain Education
anal
For Private &Personal use Only
iainelibrary.org
K