SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ASAOCALCCALCH व्यापारम्-अप्रेतना गाथाभिर्वक्ष्यमाणं 'न करोति'न विधत्ते सा पड़िधा यतनोच्यते समयज्ञैरिति इतिगाथार्थः | ६॥ ४६॥ तानेव यतनायाः षट्प्रकारानाह वंदणनमंसणं वा दाणाणुपयाणमेसि वजेई । आलावं संलावं पुवमणालत्तगो न करे ॥ १७ ॥ व्याख्या-वाऽत्र समुच्चये वन्दनं नमस्करणं दानं अनुप्रदानं 'एतैः' पूर्वोक्तैर्मिथ्याग्भिः सह वर्जयेत्'निवारयेत्, एतैः पूर्वमनालपितः-अभाषितः आलापं संलापं न कुर्यादिति द्वारगाथार्थः ॥४७॥ एतत्स्वरूपव्याख्यानमग्रतेनगाथाभिराह एतेषां षण्णां यतनाप्रकाराणां मध्ये प्रथममाद्यं यतनाद्वयमाह| वंदणयं करजोडणसिरनामण प्रयणं च इह नेयं वायाइ नमुकारो नमसणं मणपसाओ अ॥४८॥ । व्याख्या-'वन्दणयन्ति' वन्दनं 'करयोजनं ' पाणिसम्पुटमीलनं शिरोनामनं मूर्धप्रवीकरणं 'पूजनं च' पुष्पादिभिरभ्यर्चनं 'इह' जिनसमये वन्दनकं ज्ञेयं' ज्ञातव्यं, एतच्च परतीर्थिकानां न कर्त्तव्यम् । यदुक्तम्-"परतित्थियाण पणमण उम्भावण थुणण भत्तिरागं च । सकारं सम्माणं दाणं विणयं च वजेइ ॥१॥” इति प्रथमा यतना, 'वायाइत्ति' वाचा वचनेन तत्तादृग्गुणगणसङ्कीर्तनप्रवणैर्गद्यपद्यप्रबन्धैः सूर्यादिसुरवृन्दस्य स्तवनरूपैर्वर्णनाकरणं वाक् 'नमस्कारो' नमस्या न केवलं नमस्कारो'मनःप्रसादश्च मिथ्याक्सुराणां तद्दीक्षितानां च विलोकनेन परमप्रीतिसम्भ्रम इति द्वितीया यतनेति गाथार्थः ॥४८॥ एतदर्थे सङ्ग्रामसूरदृष्टान्तः स्पष्टीक्रियते, तथाहि A COCK JainEducationP ional For Private &Personal use Only aineibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy