________________
मरहस्यं हृदये निवेश्य शङ्खः सार्थेन सह पुरोऽचालीत् , । तस्मिंश्च कियन्तमपि पन्थानमतीते निशीथे भीमपल्लीपतेआंटी निपत्य कांश्चित्पुंसो गतासून् कांश्चिद्विवसनान् कांश्चिदुत्रासितान् कांश्चित्प्रहारजर्जरितान् कांश्चिद्वन्दिनश्चकार । शबरा अप्यकृत्यकृत आत्मना दशमं शङ्ख बन्दीकृत्य भीमपल्लीपतेर्दर्शयाञ्चक्रुः । सोऽपि तानादिदेश-भो एतान दशापि देव्या बलये तावत्स्थापयत, यावदेकादशः पुमान् नावाप्यते, तथैव तैर्विहिते विवेकनिस्तुषः श एकाग्रमनाः पञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्नानन्दमय एवातिष्ठत् । प्राप्ते त्वेकादशे पुंस्यष्टमीदिने भीमस्तां चण्डिकायतने समानाय्य तामभ्यर्च्य तदने तानूीकृत्यासिलतां निसूत्र्य स्माह-अरे मया भूताभिभूतस्य सुतस्य जीवितव्यनिमित्तं चामुण्डाया एकादशभिमुण्डेबलिं दास्यामीत्यभिग्रहो गृहीतोऽभूत्, सोऽद्य भवन्मुण्डैरखण्डीभविष्यति, अतोऽधुना स्मरतेष्टदैवतम् , मुञ्चत जीवितव्याभिलाषं, एष निष्कृपः कृपाणो भवद्गलकन्दलच्छेदनाय प्रवर्त्तमानोऽस्तीति यावदवादीत् , तावत्पलीलोकस्त्वरितमागत्योचैः पूचकार, भोभो धावत धावत क्षिप्रं कुमारो भूतेन मरणदशामापादित इति श्रुत्वा भीमो विहस्तस्तांस्तथैव मुक्त्वा सुतसविधमियाय । ततः शङ्खो मत्रराजप्रभावं जानानो भिल्लमेकमाह स्मभो भिल्ल ! पल्लीपतिसुतं सजीकरोमि मन्त्रप्रभावेण यदि तदादेशः स्यात् , तेनापि पल्लीशाय निवेदितम् , सोऽपि तमाकार्य स बहुमानमभ्यर्थयामास,-देहि मे पुत्रभिक्षां । ततः स विधिवन्मण्डलमापूर्य पल्लीपतिसुतं वपुरो निवेश्य विहितपद्मासनस्तन्मस्तके हस्तं निधाय पूरितनिर्दम्भकुम्भकाशुगो हृत्कमलकर्णिकायामहतो न्यस्य पत्रेषु सिद्धादींश्च
RASACROSSARSIENCEMSROSEONEX
Hamn Education
Sal
For Privale & Personal Use Only
ainelibrary.org