________________
055
सम्य०
॥१८४॥
5
DDCARRANGARA
ततः क्षितिपतिरलतसिंहासनो जनैरपृच्छयत-देव ! किमेतदाश्चर्यम् एतच्छ्रवणायोत्के अस्मच्छ्रवणे तत्प्रसद्य समा-8 स० टी० दिश्यतां, ततो नृपोऽवोचत्-हंहो श्रूयतां सावधानमानसाः-अस्ति श्रीवल्लिसमुल्लासनघनाघनं विजयवर्द्धनं नाम नगरं, तत्र शत्रुद्विपवित्रासनशार्दूलः शार्दूलो नाम नृपः, तस्य सर्वजनजनितानन्दा आनन्दा नाम पट्टमहादेवी, तयोजगजनमनस्तापोपशमनहरिचन्दनश्चन्दनो नाम नन्दनः, तस्य च पुरोहितसुतविष्णुना मत्रितनयेन सुधिया श्रेष्ठितनूजेन शङ्खन च सह सौहार्दमाशैशवमसङ्ख्यसौख्यजनकमजनि । सोऽन्यदा राजकुमारो गुणैरिव तैर्मित्रैरनुगतो वाह्यालिकेलिश्रान्तो विश्रान्तो रसालशालतले, तत्र चैकं कापालिक विलोक्य ननाम, सोऽप्याशीर्वादमदात्-निचाङ्गचङ्गलावण्यविडम्बितमनोभव ! । नागलोकाङ्गनानाथो, भव भूमीन्द्रनन्दन !॥१॥ तदाशीर्वचः श्रुत्वा कुमारस्तं व्याजहार-महर्षे ! मम मनुष्यलोकवासिनः कुतो भवदाशीर्वादसत्यता सम्भविता ?, त्रिदण्ड्यप्यवादीत्-कुमार ! मैवं वादीः,४ ममाशीर्वादः संवाद्येव, तव मित्रसहायस्य साधकधुरन्धरस्य अथवा मयि निर्विकल्पे कल्पज्ञेच किं नाम दुःसाधं ?, (कार्य परं देशान्तरविलोकनं भवता) ते तु कापुरुषा एव ये नाम नानाश्चर्यधरां धरां नालोकयन्ति यतः-गोष्ठाश्वैः किमु तैर्गेहेनर्दिभिः कूपदरैः । ये निश्शेषां न वीक्षन्ते, नानाश्चर्यमयीं महीम् ॥ १॥ ततः कापालिकवचनरचनाप्रपञ्चचन्द्रोदयेन समुल्ललास भूवासवसुतमानसे रागसागरः । चन्दनस्तं सत्कृत्य विसृज्य च खागारमगात् । अथ सुहृत्सहायः कुमारो
॥१८॥ रजन्यांगत्वा नागाङ्गनासङ्गमोपायंकापालिकं पप्रच्छ।सोऽप्यूचे-कुमार। शृणु, इह महीमहेलास्तनोपमानमातन्वानोवि
55-0%A5%
Hann Educat an interational
For Privale & Personal Use Only
www.jainelibrary.org