SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मयकञ्चकम् ॥ ३४॥ तदिदं मम जीवेश! समानीय समार्पय । एतस्य परिधानायोत्कण्ठितं वर्तते मनः ॥३५॥ प्रियेऽगाधे जले गच्छदेतदादीयते कथम् ? । इत्युक्ता तेन सा स्माह, तर्हि स्तान्मे गतिम॒तिः ॥ ३६ ॥ बालानामबलानां च, दुर्निवार्यः कदाग्रहः । इति ध्यात्वा जिघृक्षुस्तत् , तरणीमारुरोह सः ॥ ३७॥ यथा यथा ययावस्य, पृष्ठे श्रेष्टितनूद्भवः। तथा तथा पुरः पुष्प-कञ्चकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा। तदा स कञ्चकोऽप्यस्थाजातश्रम इव क्षणम् ॥३९॥ यावदारामसूस्तस्या-ऽऽदाने प्रासारयत् करम् । तावत्तत्कञ्चकशिराः, काचिस्त्री निरगाजलात् ॥ ४०॥ अहो ? ? कथमसौ योषिदकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो वननन्दनः ॥४१॥ पश्यामि कौतुकं तावदेषा योषा व यात्यतः। विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः॥४२॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाजगाम तां चान्वगच्छदारामनन्दनः ॥४३॥ साऽपि तं कञ्चुकं देवीं, परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥४४॥ ततः स्थानाद्विनिर्गत्य, वनिता सा क्वचिद्ययौ । देव्या निर्माल्यमित्येतत् , सोऽपि कञ्चकमाददे ॥४५॥ तल्लाभमुदितो पावदागमत्तटिनीतटम् । तावत्तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६॥ इतस्ततो भ्रमन्नुच्चैः शब्दयन्नाविकं हि सः । तत्प्रवृत्ति-18 मजानश्च, चेतस्येवमचिन्तयत् ॥४७॥ अहो ! ! स दुष्टो मां मुक्त्वा, काऽपि दुर्जनवद्गतः । अहं तु पूर्णकामोऽपि, होकगच्छाम्यधुना निशि? ॥४८॥ ततो भयद्रुतः कापि, पुरवाराप्रपागृहे । सोऽखाप्सीत्तत्र च स्तेनाः, पर्यटन्तः समी LOCACR-SCAMSAR OKAR Hann Educat an interational For Privale & Personal Use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy