SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 2 सम्य० स०टी० ॥१७९॥ BREARRORSCORREARCH इतश्च दूरदेशेऽस्ति, वेन्नातटमहापुरम् । राजाऽभूत्तत्र शत्रुद्रुकुञ्जरो नरकुञ्जरः ॥८३ ॥ भेरिभम्भामहाढकानिनादैः पूरयन् दिशः । राजपाट्यां चचालैप, बहुसेनान्वितोऽन्यदा ॥ ८४ ॥ जनैः सामन्तमव्यायैर्विशदे सरिदम्भसि । जलकेलिं विधायैप, क्रीडादौ समुपाविशत् ॥ ८५ ॥ अथ तारककैवर्तः, समारुह्यादिशृङ्गके। नृपं विज्ञपयामास, भूतलन्यस्तमस्तकः ॥ ८६ ॥ मयाऽद्य नर्मदानीरादेको मीन उपाददे । विदारितं च शस्त्रेण, तस्योदरमिलापते ! ॥८७॥ तस्माद्रत्नसमाकीण, कञ्चकं देव ! निर्ययौ । जलकेल्यै समेताया, राज्याः कस्या अपि ध्रुवम् ॥ ८८ ॥ इत्युदीर्य स कैवर्तः, कभुकं रविविम्बवत् । देदीप्यमानमुत्सङ्गे, न्यवेशयदिलेशितुः ॥ ८९ ॥ शृङ्गाररसभृङ्गारस्तनाच्छादनवाससा । युक्तं रागवता तेनारज्यतेलापतेर्मनः ॥ ९० ॥ राजा व्यचिन्तयत्काऽसौ, कामिनी विश्वमोहिनी? । यस्या अयं कक्षुकोऽपि, मनो हरति मामकम् ॥ ९१ ॥ केनापायेन सा ज्ञेया ?, कथं ग्राह्या मयेति सः ? । शूरोऽपि पञ्चबाणेषुजर्जरोऽगात्स्वमन्दिरम् ॥ ९२॥ हारोऽहिगरलाकारः, शृङ्गारोऽङ्गारसोदरः । परिवारोऽरिवाराभः, क्षारवद्वाससाम्भरः ॥ ९३ ॥ चन्दनं दहनप्रायं, भवनं प्रेतकाननम् । अन्तःपुरं त्वरतिकृदासंस्तस्य विरागिणः ॥ ९४ ॥ युग्मम् । सोऽथ खसचिवं प्रोचे, चेजीवेन प्रयोजनम् । तद्दिव्यकञ्चकाधीशां, वशां विज्ञातुमर्हसि ॥ ९५॥ ततो मत्री मत्रवादिज्योतिश्शास्त्रविशारदान् । पृच्छन्नपि न सम्प्राप, शुद्धिं तस्या वरस्त्रियः॥९६॥ मत्री ततः सप्तदिनी, कृताशनपरिच्युतिः । राज्येश्वरी सुरी लक्ष्मीमाराधयदनेकधा ॥ ९७॥ पद्मानना पद्मपाणिः, पद्मासीना लसच्छविः । KAREERRC-जूस Jan Education Interational For Private &Personal use Only Wwwatne brary:og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy