________________
सम्यालयन् भोगान् , सेविष्येऽहं यथासुखम् ॥ ५२ ॥ प्रयातोऽस्ति विवाहस्य, सामग्रीकरणाय सः। अद्य श्वो वा समा-18 स० टी०
गत्य, परिणेष्यति मां बलात् ॥ ५३॥ ज्ञानिना मुनिनाऽभाणि, ममाने तु तव प्रियः । भावीन्द्रदत्तराजेन्द्र तनयो ॥१७८॥
हरिवाहनः ॥ ५४॥ तन्मुनेगविसंवादान्मम खेदोऽधिकोऽजनि । लभ्यते नहि निर्भाग्यश्चिन्तारनं क्वचिद्भुवि ॥ ५५ ॥ ततः स्मितेन धौतोष्ठस्तां स्माह हरिवाहनः । सुभ्र ! प्रसीद तद्विद्या-धरं वृणु मनोहरम् ॥५६॥ खेटस्य |च कुमारस्य, भानुखद्योतयोरिव । अन्तरं सुभ्र ! जानीहि, मा मुहो मुनिवाक्यतः ॥ ५७ ॥ कुरूपे दुर्भगेऽङ्गारश्यामे निर्गुणशेखरे। जीवितेश्वरबुद्धिं मा, कुरुष्व हरिवाहने ॥ ५८॥ तन्मूर्ति सापि पश्यन्ती, किं स एष मम प्रियः। नहि सन्तः प्रकुर्वन्ति, निन्दामन्यस्य देहिनः ॥ ५९॥ सजनानां नवः पन्थाः, कोऽपि यन्निजगहणाम् । कुर्वन्ति प्रथयन्तोऽन्यगुणानां परिकीर्तनम् ॥ ६॥ विमृश्येति तमाह स्म, नूनं त्वां हरिवाहनम् । मन्ये स्वमानसोल्लासैः, सुभग! त्वद्विलोकनात् ॥६१॥ तदा हरित्करिश्रोत्रोत्तम्भनप्रवणोऽधिकम् । उल्ललास स्फुरद्वर्यतूर्यनादः समन्ततः ॥६२॥ तं श्रुत्वा कातराक्षी सा, कुमारमवदद्भिया । इतो ब्रज समायाति, स जयन्तो महाबलः ॥ ६३ ॥ तदैव सोऽपि सम्प्राप्तः, कोपादूचे नृपात्मजम् । को रे त्वं कुत आयातो, मदीयान्तःपुरान्तरे ? ॥ ६४ ॥ कुमारोऽप्यवदत्खेट, !
॥१७८॥ |श्रीन्द्रदत्तनृपाङ्गभूः । हरिवाहननामात्रागां रणायोद्यतो भव ॥ ६५ ॥ इति श्रुत्वा रुषा खगं, करे कृत्य सुदारुणम् । कुमारेण समं योद्धमारेभे खेचरेश्वरः ॥६६॥ तयोः प्रववृते युद्धं, रामरावणयोरिव । भग्नासिश्च कुमारेण, स बवा
Jan Education Interational
For Private &Personal use Only
www.jainelibrary.org