SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सम्य० स०टी० ॥१७६॥ लया, हवेह सिद्धिं परिणेह लीलया ॥१॥ संवेगविषये दवदन्तकथा, द्वितीयं संवेगाख्यं सम्यक्त्वलक्षणमुक्त्वा तृतीयं निर्वेदाढू सम्यक्त्वलक्षणं गाथापूर्वार्द्धनाह निव्वेओ चागिच्छा तरियं संसारचारयगिहस्स। व्याख्या-त्वरितं' शीघ्रं 'संसारचारकगृहस्य' भवकारागारस्य त्यागेच्छा निर्वेद इति । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारासदने कर्मदण्डपाशिकैस्तथा तथा कदर्यमानः प्रतिकर्तुमक्षमो ममतारहितश्च दुःखेन निर्विण्णो भवति, उक्तं च-नारयतिरियनरामरभवेसु निवेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥ अन्ये तु संवेगस्यार्थविपर्ययमाहुः-संवेगो भवविरागः, इति गाथापूर्वार्द्धार्थः, भावार्थस्तु हरिवाहनकथया । कथ्यते तथाहि। भोगिभिर्विहितावासाऽनन्तभोगविभासिता। भोगावतीव सश्रीका, भाति भोगावती पुरी ॥१॥ गवाक्षलक्षनिगच्छद्भपधूमोर्मिसन्ततिम् । वीक्ष्य व्योम्यम्बुभ्रान्त्या, यत्र नृत्यन्ति केकिनः ॥२॥ दुर्दान्तारातिभोगीन्द्रपक्षीन्द्रोपमविक्रमः । सुरेन्द्रजित्वरैश्चर्यस्तत्रासीदिन्द्रदत्तराट् ॥३॥ मणिप्रभाभिधा तस्य, पत्नी सच्छीलशालिनी । हरिवाहनवख्यातः, पुत्रोऽस्या हरिवाहनः ॥ ४ ॥ तत्रैव हि पुरे सूत्रधारो मन्दरनामकः । तस्यापि तनयो विज्ञो, नरवाहनसंज्ञकः ॥५॥श्रेष्ठिनो वसुसारस्य, तनुभूश्च धनञ्जयः । त्रयोऽपि राजपुत्राद्यास्ते मित्रत्वं मिथोऽभजन् ॥६॥ ॥१७६॥ Jan Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy