SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सम्यक स० टी० । ॥१६९॥ खचेष्टितेन विलक्षमुखस्तद्वस्त्वपसार्य नृपवर्यपादमूलमेत्य भूतलमिलद्भालस्थलः प्रसीद खामिन्निति पुनः पुनर्बुवाणो भृत्य इव राजानमाननाम । तदनु कृतज्ञेन राज्ञा पूर्वोपकारं स्मरता श्रीकरणपदे सुबन्धुश्रेष्ठी न्यवेश्यत, उक्तं च-पूर्वोपकारक-| तुः, प्रत्युपकर्ता कुतो भवत्यनृणः? । एको निरुपाधिकरः परस्तु सोपाधि विदधाति ॥१॥ एवं स्थिरतरं खाराज्यमिव |स्वराज्यं परिपालयन्नरीणामपि राज्यानि राजा क्रमेण स्वीचक्रे । अथ श्रीऋषभदेवस्योत्तुङ्गप्रासादं कारयित्वा तामेव प्रतिमां तत्र स्थापयित्वा प्रतिदिनत्रिकालपूजाकरणेनात्मानं पावयन् जिनशासनं प्रभावनाद्वैतमकरोत् । ततः क्रमेण सद्गुरूपासन प्राप्तचारित्रो मृत्वा वर्गसौख्यान्यनुभूय भूयो मानुष्यकं जन्मासाद्य निष्ठिताष्टकर्मा शिवशर्मावाप्स्यति। "एवं निःसीदमभूमीपरिवृढविहिताराधनस्यावनीन्दोः, श्रीमत्सिंहाह्वयस्य श्रवणयुगपुरैः सचरित्रं निपीय । श्रीमजैनेन्द्रमार्गे प्रपदप|रिगतां भावनामातनुध्वं, येन श्रेयः श्रियो वः प्रथितरतिसुखाः सेवनं कुर्वते श्राक् ॥१॥प्रभावनायां सिंहराजकथा। इतिश्रीरुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां सम्यक्त्वभूषणस्वरूपनिरूपणो नाम सप्तमोऽधिकारः समाप्तः ॥ सप्तमं सम्यक्त्वभूपणाधिकारमुक्त्वाऽष्टमं सम्यक्त्वलक्षणपञ्चकाधिकारखरूपमाहलक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताई पंचे। उवसम संवेगो तह निवेयणुकंपे अत्थिकं ॥ ४३ ॥ व्याख्या-यहृदयगतं सम्यक्त्वं लक्ष्यते अनुमानेन ज्ञायते तानि लक्षणाति पञ्चैव न न्यूनाधिकानि, कथमि HOCOCOCKROCESS RELECTED ॥१६९॥ Jan Education Interational For Privale & Personal Use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy