SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Jain Education कदम्बकैर्मण्डिताङ्गोपाङ्गो गजराज आरोढव्यः, ततः स सप्तस्थानक्षरन्मदधारासारसिक्तधरातलः सकलानपि दुष्टसामन्तामात्यान्निहन्ता । एवं स सुरो नरेश्वरमनुशिष्य तिरोऽभवत् । तदनु जाते प्रातः समये कुम्भकारानाकार्य नृवर्यो मृन्मयं सर्वजनोपहासकारिणं करिणं कारयित्वा पटहेनैव सुघोषयामास - यदद्य सिंहमहाराजो राजपाटिकां मृन्मय - करिवrates करिष्यति, सर्वैरप्यागय नतिर्विधेयेत्याघोषणामाकर्ण्य सवर्णा मन्त्रिसामन्ताद्याः सहस्रतालं जहसुः, परस्परसालपश्च- जूनमेभिराचारैरेव गोपालवालो महीतलं पालयिता, तस्मादस्माभिः खैरी खवैरी सिन्धुराधिरूढो विरूढ इवोन्मूलनीय इति निश्चित्य सर्वेऽपि ते सपौरा वावदेकत्र सम्भूय तिष्ठन्ति रम तावद्वन्धसिन्धुरवन्मृन्मयसिन्धुरस्कन्धमध्यास्य स सिंहनृपोऽङ्कुशेन यक्षप्रभावेण सजीवमिवोत्तेजयन्नगरान्तरे चालयाञ्चकार । तस्य गन्धमसहमाना दन्तिनो वाजिनोऽपि पलायाञ्चकुः । तच्छुण्डादण्डखण्डिता भूरुहा इव केचिदचलातलमलंचकुः । अपरे च मरणभयभीता राजानं व्यजिज्ञपन् - श्रीसिंहराज ! त्रायस्वास्मानात्मदासान्, अतः परं त्वचरणशरणसरणानुसारिणो भवितार इति वशीकृतसामन्तादिः स मेदिनीपतिस्तैरेव सह सरिदुपकण्ठे स्वस्थापितमृषभदेवं भक्त्याऽभिनत्यार्थिभ्यो दानं ददानः कृतशोभे खपुरे महामहपुरस्सरं प्रविश्य ततः कुञ्जरादवरुह्य सिंहासनमलङ्कृत्य खाज्ञैश्वर्य प्रकाश्य सुबन्धु श्रेष्ठिनमाकार्य सकलराजलोकसमक्षमाक्षिपत्-भोः ! श्रेष्ठिन् मृन्मयकरिराजमेनमारुह्य पुरे भ्रामय चेदस्ति काचिच्छक्तिः, अन्यथा वंशो परिनिबद्ध कम्बलोपानदादि खपाणिनोन्मोचय, नो चेदत्यहितं करिष्यामि । सोऽपि भयभ्रान्तः For Private & Personal Use Only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy