SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ MARACARRIAGRARAM RAM क्वापि, भगवन् ? भवतः स्फुटम् । यत्र में दर्शनं जातं, न भवार्णवतारणम् ॥ २॥' इत्यादि, तद्भक्तिव्यक्तिरञ्जितमनसाऽहद्विम्बाधिष्ठायकयक्षेण स वर्णयितुमारब्धः, हे सिंह सत्त्वशालिपु सिंह? भवद्भक्त्या सन्तुष्टोऽहं तद्याचख खाभीष्टं सोऽप्युवाच-देवराज? यदि सत्यं सन्तुष्टोऽसि तदा मे राज्यदो भव । यक्षोऽप्याख्यत् , एवमस्तु परं प्रतीक्षख षण्मासी, सिंहोऽपि तथेति तद्वचोऽङ्गीकृत्य खसदनमेत्य भोजनं कृत्वा प्रत्यहं भगवन्तं नमसन् षण्मासीमतिचक्रामैकदिनवत् । अथ तस्मिन् पुरे पुत्रादिरहितो राजा सहसा मूढविसूचिकया परभवभाजनमभूत् , प्रातः समये च पुरोहितसचिवादिभिः पट्टगजपट्टहयच्छत्रचामरयुगलमन्त्रपूर्णकलशरूपाणि पञ्चदिव्यान्यभिषिक्तानि, तानि च राजमन्दिरात्प्रतिपदं शौर्यादिगुणोल्वणं राजपुत्रादिलोकं दुर्भगमिवपरिहत्य पुरावहिनिःसृत्य च क्रमात्तरुतलसुप्तं जीर्णशीर्णचीवरधारिणं सिंहं दृष्ट्वा खखव्यापारकरणपराण्यभ्यषिञ्चन् । ततो मन्त्रिसामन्तैराभरणवस्त्रादिकं परिधाप्य गजेन्द्रस्कन्धमारोप्य छत्रचामरादिश्रियाऽलङ्कतो महर्या स सिंहराजः पुरे प्रवेश्य सिंहासनमुपवेशितः । अत्रान्तरे समरप्राप्तजयपत्रा राजपुत्राः परस्परमालोचयाञ्चकुः कथं गोपालभूपालोऽस्मत्प्रणतिमहतीति न तं प्रणेमुः, राजसभामेत्य च राज्ञः समानासनेषूपविशन्ति स्म । एवं तान् कृतावज्ञान् विलोक्य स राजा राज्यर्द्धिप्राप्त्याऽपि परमदरिद्र इव दुःखमनुभवन्नमर्षे वहश्च सधृभङ्गमेवमादिशत्-अस्ति भोः? कोऽपि भटो यो दुष्टानेतान् बनातीति तद्वचःश्रवणनिर्मितोपहासांस्तान् सुभटानास्थानद्वारस्थितदारुमयप्रतीहारास्तत्पुण्यप्रचयप्रेरिता उत्थाया For Private & Personal use only JainEducation O bnal R ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy