SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१६७॥ तटपाटनलम्पटसलिला सलिलां निभालयामास । अन्यायि नृपाज्ञाया इवानुलङ्घनीयायास्तस्याः परकूलमूले गोकुलकलितः सोऽवात्सीत्, प्रातस्तामन्यायार्जितश्रियमिव मन्दायमाननीरपूरां निरीक्ष्यमाणस्तत्पाटिततटान्तरे मणिमय्याः श्री ऋषभदेवप्रतिमाया मुखकमलं खस्यागामिपुण्योदयाङ्कुरमिव दृशा दृष्ट्वाऽऽत्मानं भवोदधेर्भगवन्तं वसुन्धरातलादुद्दधार । तं च सरिज्जलक्षालनेन खं च भगवद्दर्शनेन निष्पङ्कमकरोत् । ततः स्वमत्यनुसारेणार्हन्तं स्तुत्वाऽभिनत्य च तृणमयकुटीरकान्तरनिर्मित वेदिकायामवस्थाप्य प्रत्यहं भक्तिभाक् पूजास्रपनादिकं व्यरचयत् । नगरादागच्छन् गच्छंश्चानुदिनं जिनपदवन्दनसावधानोऽन्यदैवमवादीत् खामिन्नहं न जाने शास्त्रादिपरमार्थं भवद्गुणांश्च, परं त्वामनमस्कृत्य नाहं भोक्ष्ये, एवं तस्य स्वप्रतिज्ञां प्रतिपालयतः प्रादुरासीद्विरहिणीजनप्रलयकालः प्रावृट्कालः, तस्मिन्नवसरे स सिंहो यावच्चतुष्पदवृन्दमुपादाय गौचारं प्रत्यचालीत्तावत्साऽन्तराले कूलिनी कूलमूलपाटनप्रस| रद्वारिपूरा दुर्जनराज्यस्थितिरिव दुरुत्तरा समभूत्, तदा सिंहोऽर्वाचीन एव तटे गाथारयित्वा सायं व्यावृत्य ता गृहं नीत्वा पीत्वा च पानीयं श्रीमन्नाभेयदेवनत्यभावादपूर्ण प्रतिज्ञो निजबन्धुप्रमुख गृहजनैरुपरुध्यमानोऽपि न भोजनं चकार, एवं दिनत्रयमत्यवाहयत्, ततश्चतुर्थेऽह्नि कृशीभूते सरित्पूरे प्रोल्लसद्भावनो गत्वा जिनमनंसीदसीमानन्दाश्रुमिश्र गम्बुजः प्रमोदप्रोदञ्चदुच्चरोमाञ्चकञ्चुकः श्रीमद्युगादिदेवस्य चरणमूले लगित्वा चेत्यवादीत् - 'खामिन् ? भवन्मुखाम्भोजदर्शनाभावतो ध्रुवम् । वासराणां त्रयी व्यर्था ममाभूदिक्षुपुष्पवत् ॥ १ ॥ मा भूत्स दिवसः Jain Education International For Private & Personal Use Only स० टी० ॥१६७॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy