SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१६६॥ Jain Education कूणयन्त्यथ । ऊचे विदन्नपि कथंकारं भ्रान्तोऽसि ? बान्धव ! ॥ ११० ॥ स्त्रीसेवानिरताः शत्रुबधबन्धनलालसाः । तेऽमी ब्रह्मादयः कीदृग्, धर्म वक्ष्यन्त्यधर्मिणः ॥ १११ ॥ भ्रातः ! श्रीमन्महावीराद्ध में प्राप्य कथं मनः १ । अनिष्टानिव तान् द्रष्टुमुत्सहेत ममाऽधुना ॥ ११२ ॥ सुलसामम्ब डोऽत्यन्तं व्यावर्ण्य स्वमगाद्गृहम् । साऽपि स्वकीयहृत्पद्मे, बभार परमेश्वरम् ॥ ११३ ॥ मत्वैवं सुलसाचरित्रमनघं श्रीवर्द्धमानप्रभौ, स्थैयौंदार्यमहार्घतापरिगतं विश्वत्रयाश्चर्यदम् । भव्या ! यूयमपि प्रथां नयत तद्धर्मे स्थिरत्वं यथा, सम्यक्त्वेन विभूषिताः शिवरमाश्लेषात्सुखं विन्दत ॥ ११४ ॥ सम्यक्त्वस्थैर्ये सुलसाकथा ॥ चतुर्थ स्थैर्याख्यं सम्यक्त्वभूषणमुक्त्वा पञ्चमं प्रभावनाख्यं सम्यक्त्वभूषणं गाथा - चतुर्थपादेनाह "पभावणुसपणाकरणं ॥ ४२ ॥ व्याख्या - जिनशासनस्य नानाप्रकारमहोत्सवकरणेन विख्याततानयनमुत्सर्पणा तस्याः करणं-निर्मापणं प्रभावना भवतीति गाथार्थः ॥ ४२ ॥ भावार्थस्तु सिंहदृष्टान्तात् ज्ञेयः । स चायं समस्ति समस्तप्रशस्तवस्तुविस्तारापणं दूरिताशेषकृपणं लक्ष्मीसरखतीकुलगृहं राजगृहं नाम नगरं । यत्र सुधापरिधवलितविततप्रासाददम्भसंरम्भात् । पौरनरा निजकीर्त्ति स्तम्भानारोपयामासुः ॥ १ ॥ तत्र समराजिरप्र| सृमरतरातिवीरवारनिवारणप्रचण्डदोईण्डिमोग्रीवः श्रीसुग्रीवः प्रशास्ति स्म राज्यम् - अनल्पकल्पान्त कृशानुकल्पो, For Private & Personal Use Only |स० टी० ॥१६६॥ jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy