________________
SHREMICROSAAMGARCAMER
भूतले ॥ ९५॥ सोऽपि प्रत्यब्रवीदेतां, पञ्चविंशो जिनोऽधुना। उत्पेदेऽतः स्वयं गत्वा, मुग्धे! किं त्वं न वन्दसे? 8॥९६ ॥ साऽप्यूचे भद्र ! नैवैतत् , कदापि हि परं भवेत् । कोऽप्येष कपटाटोपैमुग्धान् वञ्चयते नरान् ॥९७॥ मा-18
यामृगः स आचख्यौ, यद्येवं शासनोन्नतिः । जायते तर्हि को भद्रे !, दोषपोषः प्रसर्पति ? ॥९८ ॥ साऽप्यूचे त्वं ही प्रमुग्धोऽसि, काऽलीकेन प्रभावना ? । किन्त्वप्रभाजना लोकोपहासात्किल जायते ॥ ९९ ॥ ततो गत्वाऽम्बडाग्रे स, तत्स्वरूपं न्यवीवदत् । तच्छ्रुत्वा विस्मितः सोऽपि, मनस्येवं व्यभावयत् ॥ १०॥ युक्तं सभायां श्रीवीरस्तां स्वयं समभावयत् । सम्यक्त्वाढ्या मया माया-कारिणाऽपि न चालिता ॥ १.१॥ संहृत्याथ प्रपञ्चं तमम्बडः सहजं दधत् । रूपं नैषेधिकी जल्पश्चाविशत्सुलसालयम् ॥ १०२॥ सहसोत्थाय सा स्माह, खागतं विद्यतेऽनघ! । वीरस्य त्रिजगद्भर्तुः, परमोपासकस्य ते? ॥ १०३ ॥ मातेवातुल्यवात्सल्याच्छौचं कृत्वाऽथ तत्पदोः । वन्दयामास वन्दालं, तं चैत्यानि खवेश्मनः ॥ १०४॥ अम्बडोऽप्यातस्तस्याः, शाखताशावतार्हताम् । बिम्बान्यवन्दयद्भक्त्या, वन्दितानि खयं मुदा ॥ १०५ ॥ उवाच च त्वमेवैका, पुण्यवत्यसि निश्चितम् । वात्तो यस्याः वयं वीरो, मदास्येनाद्य पृच्छति ॥ १०६॥ तदाकर्ण्य सकर्णी सा, प्रणम्य चरमं जिनम् । अस्तीत् प्रशस्तया वाचा, चञ्चन्द्रोमाञ्चकञ्चका ॥ १०७॥ तदाशयपरिज्ञान-कृते स पुनरूचिवान् । मयाऽत्रायातमात्रेण, वार्ताऽश्रावीति लोकतः ॥ १०८ ॥ यदत्र ब्रह्ममुख्याः श्रागवतेरुः सुराः पुरे । शुश्रूषवो जना जग्मुस्तत्पार्थं भवती न किम् ? ॥ १०९ ॥ दुर्गन्धादिव तद्वाक्यात्सा नासां
ARCCRACACAMARNAMASKAR
Jain Educationalitional
For Private &Personal use Only
Rmjainelibrary.org
*