________________
दास.टी.
सम्यक ॥१६५॥
FORORSCOCCASCARS
खां, सुलसा व्यस्मरन्न हि ॥ ८॥ तस्मै सा याचमानाय, भिक्षामक्षीणवैभवा । नादान्निजं प्रतिज्ञातं, सन्तो लुम्पन्ति न क्वचित् ॥ ८१ ॥ ततो निःसृत्य तद्हात्, पुरगोपुरसन्निधौ । पूर्वस्यां विचकारासौ, चतुर्वक्रविभूषितम् ॥ ८२ ॥ चतुर्भुजं ब्रह्मसूत्र-जटाजूटकमण्डितम् । अक्षमालाङ्कितं ब्रह्मरूपं सद्धंसवाहनम् ॥ ८३ ॥ युग्मम् । सावित्रीसहितः पद्मासनासीनोऽरुणाङ्गरुक् । धर्म दिदेश लोकेभ्यः, साक्षाद्ब्रह्मेव सोऽम्बडः ॥ ८४ ॥ तन्नमस्याकृते लोकः, पौरः स-18 वोऽपि चागतः। विहाय सुलसामेकां, सम्यक्त्वे निश्चलाशयाम् ॥ ८५ ॥दक्षिणस्यां द्वितीयेऽन्यम्बडो गरुडवाहनः । शङ्खचक्रगदाशार्ङ्गकरोऽस्थाद्विष्णुरूपभृत् ॥ ८६ ॥ अथाच्युतप्रघोषेण, विश्वविभ्रमकारिणा । सुलसा नागमत्तत्र, मिथ्याक्सङ्गभीरुका ॥ ८७ ॥ अथाम्बडस्तृतीयाहे, पश्चिमस्यां मृगाङ्कयुक् । कृत्तिवासास्त्रिनयनः, शूलपाणिः कपालभृत् ॥ ८८ ॥ रुण्डमाली च खटाङ्गी, भस्मोद्धूलितविग्रहः । पार्वतीमण्डिताओँङ्ग-प्रथितः प्रमथान्वितः ॥ ८९॥ एवं स ईश्वरीभूयाख्यद्धर्म नागराग्रतः। अक्षणाऽपि वीक्षितः शुद्धश्राध्या सुलसया नहि ॥९० ॥ त्रिभिर्विः । चतुर्थे दिवसेऽथासावुत्तरस्यां महाद्भुतम् । चक्रे समवसरणं, सतोरणचतुर्मुखम् ॥ ९१ ॥ जिनीभूय स्थितस्तत्र, जनैर्गत्वा स वन्दितः। धर्मोपदेशदानेनान्वगृह्णात् सोऽपि नागरान् ॥ ९२ ॥ तत्रापि तामनायातां, सुलसामवबुध्य सः । प्रैपीदेकं नरं तस्याः, क्षोभार्थ सोऽपि तां जगौ ॥९३॥ सुलसे! समवासार्षीदहस्त्वदतिवल्लभः । विज्ञे! तत् तन्निनंये, किमर्थमलसायसे? ॥९४ ॥ साप्युवाच महाभागः, नायं खामी जिनेश्वरः। विहाय श्रीमहावीरमपरोऽर्हन्नास्ति
SARALACHAR
॥१६५॥
Jain Education intamational
For Privale & Personal Use Only
www.jainelibrary.org