SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ४ ॥ प्रकृतीः शेषास्त्वायुर्वर्जसम्भवद्भवप्रायोग्याः प्रकृतीर्बशन् अपूर्वकरणानिवृत्तकरणसंज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तर्मुहूर्त्तकालमानाभ्यां विशुद्ध्यमानः स्थितिघातरसघातस्थितिबन्धगुणश्रेणीरपूर्वापूर्वतराश्च प्रवर्त्तयन् कर्कशरूढगूढकर्मग्रन्थेरन्तरकरणं करोति, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनान्मिथ्यादृक्, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणेनाद्य समय एव निसर्गतोऽधिगमतो वा औपशमिकसम्यक्त्वमवाप्नोति । अथ क्षायोपशमिकं सम्यक्त्वमुच्यतेतथाहि - यस्तु जीवोऽन्तरकरणं न करोति, स प्रथममेव यथाप्रवृत्तापूर्वकरणानिवृत्तकरणैरेव मदनकोद्रवन्यायेन विहितमिथ्यात्वदलिकत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकसम्यक्त्वं लभते, तल्लाभाच्च सम्यग्ज्ञानादिलाभः । अथ क्षायिकं सम्यक्त्वं भण्यते, तथाहि - मिध्यात्वमिश्रक्षायोपशमिकसम्यक्त्वमहाकटुकविपाकानन्तानुवन्धिप्रथमकषायचतुष्टयक्षयात्क्षायिकं सम्यक्त्वं प्राप्नोति, तदवाप्तौ तु तसिंस्तृतीये चतुर्थे वा भवे सिद्ध्यति, यदुक्तं पञ्चसङ्ग्रहे - " तइय चउत्थे तम्मि उ, भवंमि सिज्झन्ति दंसणे खीणे । जं देवनिरयासङ्घाउ, चरमदेहेसु ते हुंति ॥ १ ॥" औपशमिकं सम्यक्त्वं क्षायोपशमिकं सम्यक्त्वं च पौगलिके, शोधितमिथ्यात्वपुद्गलमयत्वात्, क्षायिकं सम्यक्त्वं त्वपौगलिकं, अत एव मुक्तिक्षेत्रे तत्सम्भव इति ज्ञातव्यमिति गाथार्थः ॥ २ ॥ तत्सम्यक्त्वं कीदृग्गुणे जीवे सम्भवतीत्याहअवउज्झियमिच्छत्तो, जिणचेइयसाहुपूअणुजुत्तो । आयारमहभेअं, जो पालइ तस्स सम्मत्तं ॥ ३॥ व्याख्या-‘अवउज्झियत्ति' अब सामस्त्येनोज्झितं परित्यक्तं मिथ्यादर्शनाभिनिवेशो येन सः, मिध्यात्वं ह्याभिग्रहिका Jain Education International For Private & Personal Use Only स०टी० ॥ ४ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy