________________
करणं यदागमः-"एस अढे एस परमटे से अणढे” इति, एवंविधं रूपं लक्षणं यस्य तत् , उक्तञ्च, "त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्या, तद्दर्शनं सम्यगुदाहरन्ति ॥१॥” तच सम्यक्त्वं यद्यप्येकद्वित्रिचतुःपञ्चदशभेदमस्ति, तथापि तन्मुख्यभेदत्रयमुत्तरार्द्धनाह–'खइयन्ति' क्षायिक क्षायोपशमिकं तथौपश-1 मिकं, चः समुचये, अत्र सूत्रे यद्यपि क्षायिकादिक्रमस्तथापि जीवस्य पूर्वमौपशमिकं सम्यक्त्वं ततः क्षायोपशमिकं सम्यक्त्वं ततोऽपि क्षायिकं सम्यक्त्वं चोत्पद्यते, अतोऽत्रादावीपशमिकं सम्यक्त्वं कथ्यते, तट्विधा नैसर्गिकं आधिग-1 मिकं च, तत्र नैसर्गिकं परोपदेशनिरपेक्षतया प्राग्भवस्मरणादिना स्यात् , आधिगमिकं तु परोपदेशादिनोत्पद्यते, अत:
औपशमिकसम्यक्त्वस्यैवोत्पत्तिरुच्यते, तथाहि-कश्चिज्जीवोऽनादिकालालीनमिथ्यादर्शनवासनः सांसारिकं दुःखं सुखलामिव मन्वानः, असद्दर्शनमपि सद्दर्शनमिव जानानः, नरकगत्यादिचतुष्टयस्यान्यतरस्यां गतौ वर्तमानः, ज्ञानावरणादि
सप्तकर्मणामनाभोगनिवर्तितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तिकरणजनितसागरोपमकोटाकोट्यन्तःस्थितिकः, पर्याप्तसंज्ञिपञ्चेन्द्रियः, मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानामन्यतरसाकारोपयोगे मनोवाक्कायानामन्यतरस्मिन् योगे तेजःपद्मशुक्ललेश्याक्रमेण जघन्यमध्यमोत्कृष्टपरिणामानामन्यतरस्मिन् लेश्यापरिणामे च वर्तमानः, अशुभप्रकृतीनां चतुःस्थानकं रसं द्विस्थानकं शुभप्रकृतीनां तु द्विस्थानकरसं चतुःस्थानकं कुर्वाणः, ज्ञानावरणान्तरायदशकदर्शनावरणनवकमिथ्यात्वकपायपोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलधूपघातनिर्माणरूपाः सप्तचत्वारिंशद्धवबन्धिनीः
Jan Education
Kinal
For Private &Personal use Only
Mainelibrary.org