SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सम्य ॥३॥ मोहनीयकर्मक्षयोपशम(समुत्थ)शुभात्मपरिणामस्वरूपमेव दर्शनं सम्यक्त्वमेवाङ्गीक्रियते, यतस्तद्विना सकल स०टी० क्रियाकलापपरिशीलनादिकमनर्थकम् , यदागमः- "भद्वेण चरित्ताओ, दंसणमिह दढयरं गहेयव्वं । सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झन्ति ॥१॥" तत्परिज्ञानाच चिदानन्दपदवी न दवीयसी, उक्तं च"सम्यक्तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय, गच्छन्ति परमां गतिम् ॥ २ ॥" तस्मिंश्चावाप्से जीवेन किं किं न लब्धम् ? यदुक्तम्-“सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥१॥” तस्य सम्यक्त्वस्य किं लक्षणं स्यादिसाह 'तं पुणत्ति' तत्पुनः सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम् , ननु शाक्यकणभक्षाऽक्षपादकापिलवेदान्तवादिवाहस्पत्यादिदर्शनप्रमाणीकृतान्यपि तत्त्वानि सन्ति, किन्तु तेषां न हिंस्यात्सर्वभूतानीतिपूर्वमुक्त्वा पश्चाच अनस्श्नां साजन्तूनां शकटभरवधे एका हिंसेति पूर्वापरविरुद्धत्वेन परीक्षाऽक्षमत्वेन च तत्त्वाभासत्वादप्रामाण्यं, तथा च तच्छास्त्रं-“पुराणं मानवो धर्मः, साझो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेलतुभिः ॥ १ ॥” तत्त्वं तु तदेवोच्यते, यत्परीक्षकपरीक्षालभैरपि सुजात्यजातरूपमिव न दूषयितुं शक्यते, | यदुक्तम्-"तापच्छेदकषैः शुद्धं, सुवर्णमिव यद्भवेत् ।युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥१॥" अतः सुनिरू-15॥२॥ पितजीवाजीवादिपदार्थपरिज्ञानरूपं तत्त्वं तस्यार्थोऽनन्तधात्मकतया परिच्छेदस्तत्र श्रद्धानं परमार्थवृत्त्या निश्चली Jain Education For Privale & Personal use only jainelibrary.org Bonal KI
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy