SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ SHASHISHARASHTRA | दर्शनशुद्धिप्रकाशमित्यनेन विशेषणेन भगवतः श्रीमहावीरस्य लोकालोकालोकनाद् ज्ञानातिशयः, स च दुर्निवारान्तरङ्गशत्रवित्रासनादेव स्यादित्यनेनैव विशेषणेनाऽपायापगमातिशयः, तीर्थकरमित्यनेनैव विशेषणेन निरुपमोपदेशवचनरचनाप्रतिवोधितभव्यलोकत्वाद्वचनातिशयः, जघन्यतोऽपि कोटिसंख्यैः सुरासुरैस्तीर्थकरः सेव्यतेऽतोऽनेनैव विशेषणेन पूजातिशयः, तदेवंविधस्य परमेशितुरुचितं नमस्कारकरणमिति । अथ कृतभावमङ्गलो गाथोत्तरार्द्धन तत्खरूपमाहदसणसुद्धित्ति' दर्शनं प्राग्व्यावर्णितस्वरूपं सम्यक्त्वं तस्य शुद्धिर्निर्दूषणता तस्याः स्वरूपं भेदप्रभेदलक्षणम् , कित्तमित्ति कीर्तयामि प्रतिपादयामि, न स्वमनीषिकया, किन्तु 'सुयाणुसारेणंति' श्रुतानुसारेण सिद्धान्तयुक्त्येति, अत्र सम्बन्धो वाच्यवाचकलक्षणः, वाच्यं प्रकरणार्थः, वाचकं सूत्रम् , अभिधेयः सम्यक्त्वमूलद्वादशभेदतत्प्रतिभेद(सप्तपष्टि) भेदस्वरूपनिरूपणम् , प्रयोजनं द्विधा, प्रकरणकर्तुः श्रोतुश्च, तदपि द्विधा-कर्तुः (परं) परमपदसंपदवाप्तिः अपरं च भव्यजनप्रबोधानुग्रहः, श्रोतुरपि पर खर्गापवर्गनिरर्गलकमलालीलालालसत्वं, अपरं तु शास्त्रतत्त्वावबोधः, अत एंवविधं शास्त्रं विपश्चिञ्चेतश्चमत्कारकारि स्यादिति गाथार्थः ॥ १॥ सम्यग्दर्शनस्वरूपमाहदसणमिह सम्मत्तं, तं पुण तत्तत्थसहहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥२॥ __ व्याख्या 'दसणत्ति,' यद्यपि दर्शनशब्देन विलोचनविलोकनपरतीर्थिकशासनादीनि कथ्यन्ते, तथापीह शास्त्रे Jain Education anal For Privale & Personal Use Only X njainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy