SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ गङ्गातटस्थानिकासुतकरोटिप्ररूढपाटलातरं स्वयमागत्य पतत्पतङ्गाखादनलालसवदनं कीरं निरीक्ष्य विसृष्टवन्तःहै यथाऽमी शलभाः शुकानामाहारतां गच्छन्ति, तथैतत्पुरखामिनरेन्द्रस्य वैरिश्रियोऽनायासेन भोग्यतामुपयास्यन्तीति | विमृश्य तत्रैव राजधान्याः सूत्रं दत्त्वा पाटलितरुनाम्ना पाटलीपुरमित्यभ्यधां व्यधुः । तत्र श्रीउदायिनरेन्द्रः स्वयमेत्य राज्यं पालयति स्म । अहो! तस्य कोऽपि प्रतापतपनोदयः यत् स्थानस्थस्यापि वैरिणो भीतभीता घूका इव कन्दराविवरेष्वभिससर्पः, स दिने दिने दानयुद्धधर्मवीरतां वितस्तार धरायाम् । अन्यच तस्यान्यतः सद्गुरुचरणमूलोपात्तद्वादशव्रतखण्डनाया ऋते कुतोऽपि न भीतिः प्रावर्त्तत, स दृढसम्यक्त्वश्चतुष्पा चतुर्थकरणदेवगुरुवन्दनपड्डिधाव|श्यकाचरणपौषधविधिनिर्माणादिकृत्यैरात्मानं पावयन्नन्तःपुरकारितपौषधागारे निशायां क्षणं विशश्राम श्रमण इव । इत्थं स जिनशासनक्रियावत्यर्थ कौशलशाल्यजनि । अथ रणागणव्यापादितस्यैकस्य गृहीतसर्वस्वस्य नृपस्याङ्गभूरेकाकी क्वापि स्थानमलभमानः पितृवैरनिर्यातनार्थमुदाविपार्थिवं जिघांसुरुज्जयिनीपुरमागस खात्यनृपं सेवया सन्तोप्यैकदाऽवादीत्-खामिन् ! श्रीमतां यद्यादेशः स्यात्तदोदायिराजानं व्यापादयामि, यदि प्रसद्य यूयं मामकं पैतृकं राज्यं सहाय्यं विधाय मह्यं दापयत इति तद्वचः श्रावं श्रावं जहर्षोजयिनीपतिः, को बयत्नेन सपलबधे जायमाने नानन्दमुद्वहति ?, ततः स नृपस्तद्वचः स्वीकृत्य तस्मै च शम्बलं दत्त्वा प्रेषितवान् , सोऽपि स्कन्धन्यस्तकम्बलः सर्वथा निर्बल एकाकी कङ्कपत्रकर्तिकाभृदभिमरकतरूपः क्रमेण पाटलीपुत्रपत्तने उदाथिनृपजिघांसया प्राविक्षत् , सुचिरं ACCRACCOCCAM-6-NCSCARSA en Education na For Privale & Personal Use Only mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy