________________
षष्ठं प्रभावकाधिकारमुक्त्वा सप्तमं सम्यक्त्वपञ्चभूषणद्वारमाहसम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती। थिरया पभावणाविय भावत्थं तेसि वुच्छामि ॥४०॥
व्याख्या-सम्मत्तत्ति-सम्यक्त्वस्यैतानि भूषणानि भवन्तीति सम्बन्धः, सम्यक्त्वं-कारकरोचकदीपकादिभेदभिन्नं, अथवा क्षायिकक्षायोपशमिकौपशमिकसाखादनादिरूपं, तदेव सर्वस्य धर्मस्याङ्गभूतंभूष्यते-अलक्रियते परमशोभामवाप्यते यैस्तानि भूषणानि, क्रमेण तन्नामान्याह-कौशल्यं' सर्वदिनकृत्यक्रियासु नैपुण्यम् 'तीर्थसेवनं' तीर्थ नद्यादेरिव संसारतारेण (रणे)-सुखावतारो मार्गः, तच द्विधा द्रव्यतीर्थ भावतीर्थ चेति, तत्र द्रव्यतीर्थ जिनजन्मादिभूमय, | उक्तं च-जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं, आगाढं दंसणं होइ ॥१॥ भावतीर्थ तु चतुर्वर्णश्रीश्रमणसङ्घः, प्रथमगणधरो वा, तस्य सेवनं पर्युपास्तिकरणम् २॥ 'भक्ति' प्रवचने विनयवैयावृत्त्यकरणरूपा प्रतिपत्तिः३॥ 'स्थिरता' जिनधर्म प्रति केनापि व्युद्धाहितचित्तस्य स्थिरताऽऽपादानं, खयं वा परतीर्थिकर्द्धिदर्शनेनापि जिनशासनं प्रति निष्प्रकम्पता ४ ॥ 'प्रभावना' तैस्तैर्धर्मकृत्यैरहन्मतोन्नतिकरणम् ५॥ अपिचेति समुच्चयार्थे, इति पञ्चभूषणानि एतेषां 'भावार्थ' स्वरूपव्याख्यानमग्रेतनगाथाभिर्वक्ष्यामीति गाथार्थः ॥४०॥ एषां मध्ये प्रथममाद्यभूषणखरूपं गाथापूर्वार्द्धनाह--
वन्दणसंवरणाई किरियानिउणत्तणं तु कोसल्लं ।
-CRAKAR KIROERAGI MANC*
Jan Education
a
l
For Private & Personal use only
ainelibrary.org
II