SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 6 सम्य० ॥१५१॥ CHACKERL भूमिकाम् ॥११०॥ किं बिम्बमेति नो वेति, शङ्कयाऽऽकुलमानसः। यावत्पश्चान्मुखं कृत्वा, सोऽपश्यत् स्पष्टया दृशा स०टी० ४॥१११॥ तावत्तत्रैव तद्विम्ब, तस्थौ नेमेः सुनिश्चलम् । प्रासादद्वाररचना, तथैव च कृताऽमुना ॥ ११२॥ आशी-15 मुखो जनोऽवोचत्, तीर्थोद्धारं वितन्वता । रत्न ! त्वयाऽऽत्मा सङ्घश्चोभ्रे पातकसागरात् ॥११३॥ तदा सङ्घन हृष्टेन, श्रीसङ्घपतिना समम् । मात्राद्युत्सवनिर्माणैरगण्यं पुण्यमायत ॥ ११४ ॥ एवं प्रतिज्ञामापूर्य, रत्नः सङ्घसमन्वितः। उत्तीर्य रैवताचक्रे, सङ्घपूजादिकोत्सवम् ॥ ११५ ॥ ततः श्रीपुण्डरीकाद्रौ, पुण्डरीकद्वयान्वितम् । श्रीमन्नामेयदेवं स, ससङ्घः प्राणमत्तमाम् ॥११६॥ अन्यान्यपि हि तीर्थानि, प्रणिपत्य स सत्वरम् । नवहु (फु)लपुर प्राप, राज्ञा कृतमहोत्सवम् ॥ ११७ ॥ अमारिघोपणैश्चैत्य परिपाटीमहामहैः । साधर्मिकादिवात्सल्यै, रनो व्यस्मापयजगत् ॥११८ ॥ एवं रत्नः प्रतिप्रातः, पुण्यैः कोशमपूरयत् । जगतीं हारनीहार-सोदरैश्च यशोभरैः ॥ ११९ ॥ इत्यादिभिर्धर्मकृत्यैः, श्रीरत्नः श्रावकोत्तमः। जिनशासनमुद्भाव्य, क्रमात्सुगतिभागभूत् ॥ १२० ॥ इत्थं श्रीरत्नसद्धेश्वरवररचितं श्रोत्रपात्रकपेयं, कृत्वा यात्रादिकृत्यैर्गुरुपदकमलासेवनैश्चातिमात्रम् । तादृग् लब्ध्याद्यभावादपि कुरुततरामुत्सवान् जैनधर्मे, येन स्याद्बोधिवीजोदयचयवशतस्तीर्थकृत्त्वादिलक्ष्मीः ॥ १२१॥ लब्ध्याद्यभावेऽपि जिनमतप्रभावकविषये रत्नश्रावककथा। ___ इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वस- ॥१५१॥ सिकावृत्तौ तत्त्वकौमुदीनाम्यां प्रभावकाष्टकादिवरूपनिरूपणो नाम षष्ठोऽधिकारः समाप्तः ॥ R Jain Educaton International For Privale & Personal Use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy