SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सङ्घः, श्रीरत्वस्तु विशेषतः । हा धिग्मां तीर्थविध्वंस-पापकश्मलिताङ्गकम् ॥ ९६ ॥ स च सन्धां व्यधादेवं, यावतीर्थमिदं मया। नैवोद्धरिष्यते तावद्भोजनं न विधास्यते ॥ ९७ ॥ इत्युक्त्वा सोदरौ सङ्घ-रक्षायै विनियुज्य सः । अम्बिकां मनसा कृत्वा, प्रावर्त्तत तपोविधौ ॥ ९८ ॥ तदेकमानसो रत्नो, निष्पकम्पो गिरीन्द्रवत् । दूरे तत्याज निर्व्याजमतिरन्नस्पृहामपि ॥ ९९ ॥ मासद्वयोपवासान्ते, स्वान्ते निश्चलतां दधत् । सोऽभाष्यत महासत्त्वो, दिव्यरूपभृताऽम्बया ॥ १०॥ वत्सोत्तिष्ठ समागच्छ, सत्त्वाब्धे ! मयका समम् । निर्मिते सुरराजेन, श्रीकाश्चनबलानके ॥१०१॥ एनं कृतानतिं नीत्वा, निशायां निजनेमिनः । द्वासप्ततिमिता मूर्तीदर्शयामास तत्र सा ॥ १०२ ॥ रत्नहेमशिलारूप्य-मयान्यष्टादश क्रमात् । द्वासप्ततिमितान्येवं, बिम्बान्येक्ष्य जहर्ष सः ॥ १०३॥ विम्बमेकं स्फुरद्रूपं, रानं रत्नः स्पृशन् जगौ । अम्बां मातरिदं देहि, चैत्येऽहं स्थापये यथा ॥ १०४॥ निषिद्धः सोऽम्बया वत्स !, कलिकालः समष्यति । लोकास्तत्र भविष्यन्ति, सुतरामर्थलोलुपाः ॥ १०५ ॥ पापे रता धर्मवाह्यास्तेभ्यो रत्नमयं त्विदम् । न छुट्टिष्यति तस्मात्ते, भवित्र्याशातना भृशम् ॥१०६ ॥ युग्मम् । बिम्बं वज्रमयं वज्र-सारमेतद्गृहाण* तत् । तेनापि तद्वचो मेने, शुभायतिविचारिणा ॥१०७॥ ऊचे च तत्र हे मातरियद्विम्बं कथं मया । नेतव्यं ? स तयाऽप्यूचे, सूत्रेणामेन वेष्टय ॥१०८॥ मा भैषीश्चल वेगेन, पश्चात् त्वं मा विलोकयेः । व्यावृत्याऽऽस्यं यत्र बिम्बं, द्रष्टा स्थास्यति तत्र भोः ॥ १०९॥ इत्यम्बावचसा रत्नो, बिम्बमादाय सत्वरम् । निमेषवत् व्यतीयाय, कियतीमपि3 Jain Education anal For Private &Personal use Only DRjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy