________________
CARMERSEASUR
रत्नस्य पोमिणी नाम्नी, लोकंपृणगुणा प्रिया । तत्कुक्षिभूरभूमिस्तु, दोषाणां कोमलोऽभवत् ॥७॥ श्रीमन्नेमिकुमाहारस्य, निर्वाणसमयादथ । वर्षाणामष्टसाहरूयां, गतायां मुनिपुङ्गवः ॥ ८॥ श्रीमान् पट्टमहादेवाभिधः साधुसम-13 लन्वितः । नवफुलपुरोद्याने, समागाद् ज्ञानभासुरः ॥९॥ युग्मम् । तत्र देवकृते खर्णकमले विमलाशयः । सिंहास
नमधिष्ठाय, तस्थिवान् स यतिप्रभुः ॥ १० ॥ उद्यानपालै राजाऽथ, व्यज्ञप्यागमनं गुरोः । सोऽपि पौरपरीवार-वृतस्तं वन्दितुं ययौ ॥ ११ ॥ त्रयोऽपि वान्धवा रत्नप्रमुखाः सपरिच्छदाः । सादरं वन्दितुं जग्मुः, सूरिं दूरितपात
कम् ॥ १२ ॥ सुरासुरनराधीशपूर्णायां पर्षदि प्रभुः । जगजीवहितामेवं, विदधे धर्मदेशनाम् ॥१३॥ यास्यामीति है जिनालयेऽत्र लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिन
गृहात्प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ १४ ॥ सयंपमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणतं गीयवाइए ॥ १५ ॥ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः। जपकोटीसमं ध्यानं, ध्यानकोटिसमो लयः ॥ १६ ॥ इदं सामान्यतस्तीर्थ-कृतां सेवोद्भवं फलम् ।श्रीशत्रुञ्जयतीर्थे तु, तदेव सुतरां महत् ॥ १७ ॥ उक्तं च-धूवे पक्खोवासो मासक्खवणं कपूरधूवम्मि। कित्तियमासक्खवणं साहूपडिलाहिए लहइ ॥ १८॥ अहो तीर्थस्य माहात्म्यं, पुण्डरीकमहागिरेः । पशवोऽपि हि यत्रस्था, लभन्ते त्रैदशं पदम् ॥ १९ ॥ ततोऽपि रैवतगिरेः, कृता सेवा महाफला । विमलाचलदेशत्वात्तद्रूपोऽयं यतः स्मृतः ॥ २० ॥ विशेष
Hann Education Interational
For Privale & Personal Use Only
www.jainelibrary.org