SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सम्य० स० टी० ॥१४७॥ ESSAGARAAKAARAK इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं। जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥ ३९ ॥ ___ व्याख्या-'इति' पूर्वोक्तप्रकारेण 'सम्पदभावे' लब्धिविरहे सति, न हि सर्वत्रैताः पूर्वोक्ता लब्धयः सम्भवन्ति, विशिष्य निरतिशये कालेऽस्मिन् , तदा किं कर्त्तव्यमित्याह-जत्तत्ति-यात्रा श्रीशत्रुञ्जयादिमहातीर्थेषु चतुर्विधसङ्घन सह सोत्सवं गमनं, अथवा युगप्रधानादेवन्दनाथ महा सम्मुखयानं पूजा-कुसुमादिभिरर्हदर्चनं उत गुरूणां वन्दनकशुश्रूषादिकरणं, आदिशब्दादभयदानसत्रागारपटहोद्धोषणादि एवंरूपे कृत्ये कृते किं स्यादित्याह-जणत्ति-जना लोकास्तेषां मनः-श्चित्तं तस्य रमणं-प्रीत्युत्पादकं अन्यदप्युत्सर्पणादि, किंनिमित्तमित्याह-जिणत्ति-जिना अर्हन्तो यतयः-साधवस्तेषां विषयं-तन्निमित्तं सकलं-सर्वमनुष्ठानं 'प्रभावना' महिमा भवति, कथम् ?-'शुद्धभावेन' त्रिकरणविशुद्धा कृतमिति गाथार्थः, भावार्थस्तु सङ्घपतिश्रीरत्नश्रावकदृष्टान्तेन प्रतन्यते, स चायम्___ अस्त्युत्तरस्यामाशायां, कले काश्मीरमण्डले । पत्तनं मत्तनेत्राणां, क्रीडौको नवहु(फु)लुकम् ॥१॥ विक्रमाक्रान्तदिक्चक्रस्तत्र शत्रुक्षयङ्करः । खवंशसरसीहंसो, नवहंसोऽभवन्नृपः ॥२॥ सुनिस्तूंशोऽपि निस्तूंशः, सुहृदां मोदका-2 यते । जातोल्लासश्च यस्यैषोऽसुहृदां मोदकायते ॥३॥ रम्भाविजयदेवीति, देवी रम्भाविजित्वरी । तस्यास्ति को-13. मलालापैः, कोकिलेव मनोहरा ॥४॥ पुरेऽत्रैव ह्यनन्यश्री सुभगं ? भावुकस्थितिः । पूर्णचन्द्राभिधः श्रेष्ठी, कलाभिः है पूर्णचन्द्रजित् ॥ ५॥ राजमान्याः सुतास्तस्य, रत्नत्रयवदद्भुताः । पुर-नभूताः श्रीरत्नो, मदनः पूर्णसिंहकः ॥६॥ १४७॥ Jan Educatan International For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy