SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ CRECI-सब रिणं, किं न्यूनमासीदेषामृषिवन्दापनं विना, मुधैव द्विजमूर्द्धन्यनर्थवज्रपातः कृतः, तदवश्यं ब्रह्महत्यापातकलिप्तो नृपोऽजनि, अतः परं चास्मद्धत्ययाऽधिकतरमात्मानं पातकपङ्के निमज्जयिष्यति, राजापि तत्वरूपं विनिरूप्य खेदखिन्नो मुखं दर्शयितुमक्षमः पातालमूलं प्रविविक्षुरिव विपक्षभूध्रपक्षच्छेदनमहेन्द्रस्य श्रीमहेन्द्रोपाध्यायस्य पादारविबन्दमभिवन्द्यावादीत्-महात्मन् ! अस्मादकृत्यान्मां निस्तारय, क्षमानिधे! क्षम्यतामयं ममापराधः, प्रसत्तिश्चाधी यतां, यतो मानधना एव हि भवन्ति महान्तः, यदुक्तं-अधना धनमिच्छन्ति, धनमानौ हि मध्यमाः। उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ १॥ अतः परं किमुच्यते,-माताऽसि मे त्वं जनकस्त्वमेव, प्रभुर्गुरुस्त्वं मम बान्धवोऽपि । त्वं जीवदाता शरणं शरण्यः, प्रसीद मां तारय पातकाब्धेः ॥१॥ अतो द्विजन्मनां जीवितदानेन प्रसद्यतां हत्यापातकदोपकश्मलितं च मां निर्मलीकुरु । अत्रान्तरेऽम्बरे वाणीशी प्रोललास-'यद्यमी विप्राः श्रीमकदर्हद्दीक्षा कक्षीकुर्वन्ति, तदा प्राणन्ति नान्यथा' नरेन्द्रेणापि तद्वचस्यङ्गीकृते सर्वेऽपि ते विप्राः सजीवभूवुः, ततस्ते । भावशून्या अपि जिजीविषया महेन्द्रोपाध्यायसविधे व्रतं प्रपन्नाः, राजापि परमश्रावकत्वमङ्गीकृत्य त्यक्तमिथ्यात्वाभिनिवेशः प्रविवेश श्रीजिनशासनप्रासादे, तं च तीर्थयात्राद्युत्सवधर्मकृत्यैः प्रदीपैरिव द्योतयामास । अथ श्रीमहेन्द्रोपाध्याया जिनशासनं प्रभावयित्वा द्विजमुनिभिः समं भृगुकच्छपुरमेत्य श्रीआर्यखपटाचार्यानवन्दत, तैरपि भृगुकच्छे श्रीमुनिसुव्रतखामिचैत्यमहातीर्थ स्थापयित्वा सर्वानुयोगयोग्यं श्रीमहेन्द्रं खीयपट्टे निवेश्य विविधप्रभावना -NCRENCE Jan Education S onal For Private & Personal Use Only ORjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy