SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥१३०॥ ALSO GEORGEOGRA भूयन्ते महात्मानः, यतः-बुद्धिविहवाइगबो, तुच्छाणं होइ न उण गरुयाणं । खीरोयहिणो दुद्धं, छालिदुद्धं व नुप्फिणइ ॥१॥ ततः क्षितिपतिमहोत्सवपुरस्सरं सूरीन् पुरे प्रवेश्य खयं सपौरजनपदः श्रीमदर्हद्धाराधनसावधानः समभूत् । सूरयोऽपि श्रीजिनशासनसाम्राज्यमेकच्छत्रमासूत्रयन्तस्तत्रैव तस्थिवांसः। अन्यदा भृगुकच्छात्सङ्घानुज्ञातं यतिसङ्घाटकं सूरीनाह्वातुमियाय । तेनाऽऽर्यखपटाचार्याः सङ्घविज्ञप्तिमिमां श्राविताः कश्चिदविपश्चिद्विनेयः कपरिकास्थितान्यागमपत्राणि द्रव्यानुयोगरहस्यमयानि सहसोपादाय वाचितवान् , तत्रस्थामाकृष्ठिविद्यां स्वयमभ्यस्य तया कल्पलताकल्पया सरसरसवत्यादिकमानीयानुदिनं भुजानो गीताथैार्यमाणोऽपि रसगृध्नुः क्रुधं विधाय बुद्धमते स शठोऽगात् , स तदाश्रयमाश्रितस्तदायिणां पात्राणि नभोमार्गे प्रेषयित्वा विविधभक्ष्यभोज्यभृतान्यानीय च सौगतानां भुजिक्रियां सूत्रयामास यतिपाशः । तदेतस्यामानं महिमानं वीक्ष्य गतानुगतिकतया सर्वापि जनता सौगतमतानुगतिका संवृत्ता, जैना अप्यैहिकफललिप्सवः केऽपि तन्मतमूररीचक्रुः । तस्मादेतज्जैनशासनपराभवमेत्यापाकुरुध्वं नाध्वनीना अपरे साधवोऽस्मिन्नध्वनीति सङ्घादेशमासाद्य सद्य एव सूरयस्तेनैव साधुसङ्काटकेन समं समन्ततो जिनशासनप्रभावनार्थ विपक्षानार्थ च भृगुकच्छपुरमत्य दुष्टशिष्यप्रहितपात्राणि भक्ष्यपूर्णानि नभोवर्मना प्रत्यावृत्तानि गुरुतरगुरुकल्पितेषु व्योमस्फटिकशिलातलेष्वास्फालितानि मुद्गराहतघटवत्सहस्रं खण्डीभूतानि भूमावपातयन् , सोऽप्रशस्थशिष्योऽपि खप्रहितपात्रभरुन गुरूणामागमनं मत्वा काकनाशं ननाश । e ॥१३०॥ Jamn Education Monat For Privale & Personal use only mjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy