________________
यक्षायतनं प्रविश्य तमाह स्म-भोः! कस्त्वं? किमर्थमेवं धृष्टं विचेष्टसे?, ततस्तस्याजल्पतस्तजागरणाय यत्र यत्र | प्रावरणपटमुत्सारयामास तत्र तत्र शकृवारमेव विलोकयामास भूवासवः, ततोऽसौ कोपाटोपसमुत्कटभ्रकुटियष्टिमुष्टयादिभिस्तमताडयत् । ते च प्रहारास्तस्मिन्नलगन्तः प्रत्युत राजान्तःपुरीशरीरेषु सहस्रगुणीभूय यातनां जनयांचक्रुः, तदाऽवरोधवध्वः ससाध्वसा रोदसीपूरं पूचक्रुः, हा हाऽन्तःपुररक्षकाः ! पटुकटुतरप्रहारैः केनाप्यदृष्टेन दुष्टेन पटहा इव ताड्यामहे इत्यस्मत्खरूपं भूपतये गत्वा निवेदयत, यथाऽस्मान् प्रतिकरोति, तैरपि सत्वरं गत्वा नृपाय तन्यवेदि, सोऽपि चेतसि चिन्तयामास-नूनमेष कोऽपि विद्यासिद्धः, तस्मादेतद्विलसितमेतत् , ततः स चकितस्तं चरणयोर्लगित्वा क्षमयामास क्षमावासवः-प्रसीद क्रोधमुपसंहरेति वचनैस्तमुपशमयामास, तदा त्वार्यखपटाचार्या उत्थाय प्रस्थातुकामास्तं गुह्यकं स्माहुः-रे यक्ष ! मङ्क त्वमपि समागच्छ मत्सम, सोऽपि बालकवत्तत्पृष्ठलग्नश्चचाल,
लोकोऽपि तमदृष्टपूर्व खरूपं विनिरूप्य विस्मयापगायां स्त्रान्ति स्म । अथ यक्षायतनपुरोदेशे स्थितं बृहत्पाषाणयुगलं हसूरिशक्त्या यक्षपृष्ठलग्नं चचाल, ततः कौतुकोत्तानमानसोदरविधुरान्तरश्च नरवरः प्रहमौलिमौलिनिघृष्टतत्पदपद्मो
गुरुं विज्ञपयति स्म-प्रभो! एताभ्यामुपलशकलाभ्यां घरट्टान्तःपतितचणकवत्पौरजनः सञ्चूरयिष्यते, तस्मादत्रैवेतयोर्निषेधः क्रियतां मयि प्रसत्तिमाधाय, यक्षोऽपि वृक्षवदुत्खातप्रतिरोपितः खस्थान एव स्थाप्यतां, तद्वचसा सूरयोऽपि तथैव कृतवन्तः । तेऽप्येतच्छासनप्रभावनाकृते कृतवन्तो न कोपाटोपात्, न हि तादृशाः सम्परायैः परा
Jain Education
a
l
For Privale & Personal Use Only
Mainbrary.org